भवता च क्षमा कार्या रुद्रेण सह दैवतैः। कृते युगावसाने तु समाप्तिं चक्रतौ गते
मया च प्रेषिता यूयमेते च दनुपुंगवाः। संधिर्वा विग्रहो वापि सर्वैः कार्यस्तदैव हि
पुलस्त्य उवाच। पुनस्तान्दानवान्ब्रह्मा वाक्यमाह स्वयंप्रभुः। दानवैर्न विरोधोत्र यज्ञे मम कथंचन
मैत्रभावस्थिता यूयमस्मत्कार्ये च नित्यशः। दानवा ऊचुः। सर्वमेतत्करिष्यामः शासनं ते पितामह
अस्माकमनुजा देवा भयं तेषां न विद्यते। पुलस्त्य उवाच। एतच्छुत्वा तदा तेषां परितुष्टः पितामहः
मुहूर्तं तिष्ठतां तेषामृषिकोटिरुपागता। श्रुत्वा पैतामहं यज्ञं तेषां पूजां तु केशवः
आसनानि ददौ तेषां तदा देवः पिनाकधृत्। वसिष्ठोर्घं ददौ तेषां ब्रह्मणा परिचोदितः
गामर्घं च ततो दत्वा पृष्ट्वा कुशलमव्ययम्। निवेशं पुष्करे दत्वा स्थीयतामिति चाब्रवीत्
ततस्ते ऋषयः सर्वे जटाजिनधरास्तथा। शोभयंतः सरःश्रेष्ठं गङ्गामिव दिवौकसः
मुंडाः काषायिणश्चैके दीर्घश्मश्रुधराः परे। विरलैर्दशनैः केचिच्चिपिटाक्षास्तथा परे
बृहत्तनूदराः केपि केकराक्षास्तथापरे। दीर्घकर्णा विकर्णाश्च कर्णैश्च त्रुटितास्तथा
दीर्घफाला विफालाश्च स्नायुचर्मावगुंठिताः। निर्गतं चोदरं तेषां मुनीनां भावितात्मनां१०० 1.18.
दृष्ट्वा तु पुष्करं तीर्थं दीप्यमानं समंततः। तीर्थलोभान्नरव्याघ्र तस्य तीरे व्यवस्थिताः
वालखिल्या महात्मानो ह्यश्मकुट्टास्तथापरे। दंतोलूखलिनश्चान्ये संप्रक्षालास्तथापरे
वायुभक्षा जलाहाराः पर्णाहारास्तथापरे। नाना नियमयुक्ताश्च तथा स्थंडिलशायिनः
सरस्यस्मिन्मुखं दृष्ट्वा सुरूपास्याः क्षणादभुः। किमेतदिति चिंत्याथ निरीक्ष्य च परस्परम्
अस्मिंस्तीर्थे दर्शनेन मुखस्येह सुरूपता। मुखदर्शनमित्येव नाम कृत्वा तु तापसाः
स्नाता नियमयुक्ताश्च सुरूपास्ते तदाभवन्। देवपुत्रोपमा जाता अनौपम्य गुणान्विताः
शोभमाना नरश्रेष्ठ स्थिताः सर्वे वनौकसः। यज्ञोपवीतमात्रेण व्यभजंस्तीर्थमंजसा
जुह्वतश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः। चिंतयंतो हि राजेंद्र तपसा दग्धकिल्बिषाः
न यास्यामो परं तीर्थं ज्येष्ठभावेत्विदं सरः। ज्येष्ठपुष्करमित्येव नाम चक्रुर्द्विजातयः
तत्र कुब्जान्बहून्दृष्ट्वा स्थितांस्तीर्थसमीपतः। बभूवुर्विस्मितास्तत्र जना ये च समागताः
दत्वा दानं द्विजातिभ्यो भांडानि विविधानि च। श्रुत्वा सरस्वतीं प्राचीं स्नातुकामा द्विजागताः
सरस्वतीतीर्थवरा नानाद्विजगणैर्युता। बदरेंगुदकाश्मर्य प्लक्षाश्वत्थविभीतकैः
पौलोमैश्च पलाशैश्च करीरैः पीलुभिस्तथा। सरस्वतीतीर्थरुहैर्धन्वनैः स्यंदनैस्तथा
कपित्थैः करवीरैश्च बिल्वैराम्लातकैस्तथा। अतिमुक्तकपंडैश्च पारिजातैश्च शोभिता
कदंबवनभूयिष्ठा सर्वसत्वमनोरमा। वाय्वंबुफलपर्णादैर्दंतोलूखलिकैरपि
तथाश्मकुट्टमुख्यैश्च वरिष्ठैर्मुनिभिर्वृता। स्वाध्यायघोषसंघुष्टा मृगयूथशताकुला
अहिंसैर्धर्मपरमैस्तथा चातीव शोभिता। सुप्रभा कांचनाख्या च प्राची नंदा विशालका
स्रोतोभिः पंचभिस्तत्र वर्तते पुष्करे नदी। पितामहस्य सदसि वर्त्तमाने महीतले