शुक्रो बृहस्पतिश्चैव संवर्तो बुध एव च। शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च
मरुतो विश्वकर्मा च पितरश्चापि भारत। दिवाकरश्च सोमश्च ब्रह्माणं पर्युपासते
गायत्री दुर्गतरणी वाणी सप्तविधा तथा। अक्षराणि च सर्वाणि नक्षत्राणि तथैव च
भाष्याणि सर्वशास्त्राणि देहवंति विशांपते। क्षणा लवा मुहूर्ताश्च दिनं रात्रिस्तथैव च
अर्द्धमासाश्च मासाश्च क्रतवः सर्व एव च। उपासते महात्मानं ब्रह्माणं दैवतैः सह
अन्याश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च। प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या मतिस्तथा
श्रुतिः स्मृतिस्तथा क्षांतिः शांतिः पुष्टिस्तथा क्रिया। सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः
उपतिष्ठंति ब्रह्माणं सर्वास्ता देवमातरः। विप्रचित्तिः शिविः शंकुरयःशंकुस्तथैव च
वेगवान्केतुमानुग्रः सोग्रो व्यग्रो महासुरः। परिघः पुष्करश्चैव सांबोश्वपतिरेव च
प्रह्लादोथ बलि कुंभः संह्रादो गगनप्रियः। अनुह्रादो हरिहरौ वराहश्च कुशो रजः
योनिभक्षो वृषपर्वा लिंगभक्षोथ वै कुरुः। निःप्रभः सप्रभः श्रीमांस्तथैव च निरूदरः
एकचक्रो महाचक्रो द्विचक्रः कुलसंभवः। शरभः शलभश्चैव क्रपथः क्रापथः क्रथः
बृहद्वांतिर्महाजिह्वः शंकुकर्णो महाध्वनिः। दीर्घजिह्वोर्कनयनो मृडकायो मृडप्रियः
वायुर्गरिष्ठो नमुचिश्शम्बरो विज्वरो विभुः। विष्वक्सेनश्चंद्रहर्ता क्रोधवर्द्धन एव च
कालकः कलकांतश्च कुंडदः समरप्रियः। गरिष्ठश्च वरिष्ठश्च प्रलंबो नरकः पृथुः
इंद्रतापन वातापी केतुमान्बलदर्पितः। असिलोमा सुलोमा च बाष्कलि प्रमदो मदः
सृगालवदनश्चैव केशी च शरदस्तथा। एकाक्षश्चैव राहुश्च वृत्रः क्रोधविमोक्षणः
एते चान्ये च बहवो दानवा बलवर्द्धनाः। ब्रह्माणं पर्युपासंत वाक्यं चेदमथोचिरे
त्वया सृष्टाः स्म भगवंस्त्रैलोक्यं भवता हि नः। दत्तं सुरवरश्रेष्ठ देवेभ्यधिकाः कृताः
भगवन्निह किं कुर्मो यज्ञे तव पितामह। यद्धितं तद्वदास्माकं समर्थाः कार्यनिर्णये
किमेभिस्ते वराकैश्च अदितेर्गर्भसंभवैः। दैवतैर्निहतैः सर्वैः पराभूतैश्च सर्वदा
पितामहोसि सर्वेषामस्माकं दैवतैः सह। तव यज्ञसमाप्तौ च पुनरस्मासु दैवतैः
श्रियं प्रति विरोधश्च भविष्यति न संशयः। इदानीं प्रेक्षणं कुर्मः सहिताः सर्वदानवैः
पुलस्त्य उवाच। सगर्वं तु वचस्तेषां श्रुत्वा देवो जनार्दनः। शक्रेण सहितः शंभुमिदमाह महायशाः
विघ्नं प्रकर्तुं वै रुद्र आयाता दनुपुंगवाः। ब्रह्मणामंत्रिताश्चेह विघ्नार्थं प्रयतंति ते
अस्माभिस्तु क्षमाकार्या यावद्यज्ञः समाप्यते। समाप्ते तु क्रतावस्मिन्युद्धं कार्यं दिवौकसां
यथानिर्दानवा भूमिस्तथा कार्यं त्वया विभो। जयार्थं चेह शक्रस्य भवता च मया सह
द्विजानां परिवेष्टारो मरुतः परिकल्पिताः। दानवानां धनं यच्च गृहीत्वा तद्यजामहे
अत्रागतेषु विप्रेषु दुःखितेषु जनेष्विह। व्ययं तस्य करिष्यामो दासभावे निवेशिताः
वदंतमेवं तं विष्णुं ब्रह्मा वचनमब्रवीत्। एते दनुसुताः क्रुद्धा युष्माकं कोपनेप्सिताः