श्रीवत्सलोमसंच्छन्नो हेमसूत्रेण राजता। सुरर्षिप्रतिमः श्रीमान्स्वयंभूर्भूतभावनः
शुचिरोमा महावक्षाः सर्वतेजोमयः प्रभुः। यो गतिः पुण्यशीलानामगतिः पापकर्मणां
योगसिद्धा महात्मानो यं विदुर्लोकमुत्तमं। यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम्
यं प्राप्य शाश्वतं विप्रा नियता मोक्षकांक्षिणः। जन्मनो मरणाच्चैव मुच्यंते योगभाविताः
यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः। सेवंसेवं यताहारा दुश्चरं व्रतमास्थिताः
योनंत इति नागेषु प्रोच्यते सर्वयोगिभिः। सहस्रमूर्द्धा रक्ताक्षः शेषादिभिरनुत्तमैः
यो यज्ञ इति विप्रेंद्रैरिज्यते स्वर्गलिप्सुभिः। नानास्थानगतिः श्रीमानेकः कविरनुत्तमः
यं देवं वेत्ति वेत्तारं यज्ञभागप्रदायिनं। वृषाग्निसूर्यचंद्राक्षं देवमाकाशविग्रहं
तं प्रपद्यामहे देवं भगवन्शरणार्थिनः। शरण्यं शरणं देवं सर्वदेवभवोद्भवं
ऋषीणां चैव स्रष्टारं लोकानां च सुरेश्वरं। प्रियार्थं चैव देवानां सर्वस्य जगतः स्थितौ
कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमं। येन प्रवर्तितं सर् तं नतास्मस्सुरोत्तमं
त्रेताग्निना तु यजता देवेन परमेष्ठिना। यथासृष्टिः कृता पूर्वं यज्ञसृष्टिस्तथा पुनः
तथा ब्रह्माप्यनंतेन लोकानां स्थितिकारिणा। अन्वास्यमानो भगवान्वृद्धोप्यथ च बुद्धिमान्
यज्ञवाटमचिंत्यात्मा गतस्तत्र पितामहः। धनाढ्यैर्ऋत्विजैः पूर्णं सदस्यैः परिपालितम्
गृहीतचापेन तदा विष्णुना प्रभविष्णुना। दैत्यदानवराजानो राक्षसानां गणाः स्थिताः
आत्मानमात्मना चैव चिंतयामास वै द्रुतं। चिंतयित्वा यथातत्वं यज्ञं यज्ञः सनातनः
वरणं तत्र भगवान्कारयामास ऋत्विजाम्। भृग्वाद्या ऋत्विजश्चापि यज्ञकर्मविचक्षणाः
चक्रुर्बह्वृचमुख्यैश्च प्रोक्तं पुण्यं यदक्षरं। शुश्रुवुस्ते मुनिश्रेष्ठा वितते तत्र कर्मणि
यज्ञविद्या वेदविद्या पदक्रमविदां तथा। घोषेण परमर्षीणां सा बभूव निनादिना
यज्ञसंस्तरविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः। शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः
मीमांसा हेतुवाक्यज्ञैः कृता नानाविधा मुखे। तत्र तत्र च राजेंद्र नियतान्संशितव्रतान्
जपहोमपरान्मुख्यान्ददृशुस्तत्रवै द्विजान्। यज्ञभूमौ स्थितस्तस्यां ब्रह्मा लोकपितामहः५० 1.18.
सुरासुरगुरुः श्रीमान्सेव्यमानः सुरासुरैः। उपासते च तत्रैनं प्रजानां पतयः प्रभुं
दक्षो वसिष्ठः पुलहो मरीचिश्च द्विजोत्तमः। अंगिरा भृगुरत्रिश्च गौतमो नारदस्तथा
विद्यामानमंतरिक्षं वायुस्तेजो जलं मही। शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च
विकृतश्च विकारश्च यच्चान्यत्कारणं महत्। ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार एव च
शब्दः शिक्षा निरुक्तं च कल्पश्च्छंदः समन्विताः। आयुर्वेद धनुर्वेदौ मीमांसा गणितं तथा
हस्त्यश्वज्ञानसहिता इतिहाससमन्विताः। एतैरंगैरुपांगैश्च वेदाः सर्वे विभूषिताः
उपासते महात्मानं सहोंकारं पितामहं। तपश्च क्रतवश्चैव संकल्पः प्राण एव च
एते चान्ये च बहवः पितामहमुपस्थिताः। अर्थो धर्मश्च कामश्च द्वेषो हर्षश्च सर्वदा