सर्वकामप्रदा देवी भविष्यसि शुभप्रदे। यश्चेदं पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः
सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः। "गायत्र्युवाच। भविष्यत्येवमेवं तु यत्त्वया पुत्र भाषितम्
भीष्मउवाच। अत्यद्भुतमिदं ब्रह्मन्श्रुतवानस्मि तत्त्वतः। अभिषेकं तु गायत्र्याः सदस्यत्र तथा कृतम्
विरोधं चैव सावित्र्या शापदानं तथा कृतम्। विष्णुना च यथा देवी सर्वस्थानेषु कीर्तिता
गायत्री चापि रुद्रेण स्तुता च वरवर्णिनी। तं श्रुत्वा प्रतिमात्मानं विस्तरेण पितामहम्
प्रहृष्टानि च रोमाणि प्रशांतं च मनो मम। श्रुत्वा मे परमा प्रीतिः कौतूहलमथैव हि
नारायणस्तु भगवान्कृत्वा तां परमां च वै। ब्रह्मपत्न्याः स्तुतिं भक्त्या न्यस्यतां पर्वतोपरि
उवाच वचनं विष्णुस्तुष्टिपुष्टिप्रदायकम्। श्रीमति ह्रीमती चैव या च देवीश्वरी तथा
एतदेव श्रुतं ब्रह्मंस्तव वक्त्राद्विनिःसृतम्। उत्तरं तत्र यद्भूतं यच्च तस्मिन्स्थले कृतम्
आनुपूर्व्या च तत्सर्वं भगवान्वक्तुमर्हति। श्रुतेन मे देहशुद्धिर्भविष्यति न संशयः
पुलस्त्य उवाच। यजतः पुष्करे तस्य देवस्य परमेष्ठिनः। शृणुराजन्निदं चित्रं पूर्वमेव यथाकृतम्
आदौ कृतयुगे तस्मिन्यजमाने पितामहे। मरीचिरंगिराश्चैव पुलस्त्यः पुलहः क्रतुः
दक्षः प्रजापतिश्चैव नमस्कारं प्रचक्रिरे। विद्योतमानाः पुरुषाः सर्वाभरणभूषिताः
उपनृत्यंति देवेशं विष्णुमप्सरसां गणाः। ततो गंधर्वतूर्यैस्तु प्रतिनंद्य विहायसि
बहुभिः सह गंधर्वैः प्रगायति च तुंबरुः। महाश्रुतिश्चित्रसेन ऊर्णायुरनघस्तथा
गोमायुस्सूर्यवर्चाश्च सोमवर्चाश्च कौरव। युगपच्च तृणायुश्च नंदिश्चित्ररथस्तथा
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः। कलिः पंचदशश्चात्र तारकश्चात्र षोडशः
हाहाहूहूश्च गंधर्वो हंसश्चैव महाद्युतिः। इत्येते देवगंधर्वा उपगायंति ते विभुम्
तथैवाप्सरसो दिव्या उपनृत्यंति तं विभुं। धातार्यमा च सविता वरुणोंशो भगस्तथा
इंद्रो विवस्वान्पूषा च त्वष्टा पर्जन्य एव च। इत्येते द्वादशादित्या ज्वलंतो दीप्ततेजसः
चक्रुरस्मिन्सुरेशाश्च नमस्कारं पितामहे। मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः। भवो विश्वेश्वरश्चैव कपर्दी च विशांपते
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे। अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः
विश्वेदेवाश्च साध्याश्च तस्मै प्रांजलयः स्थिताः। शेषाद्यास्तु महानागा वासुकिप्रमुखाहयः
काश्यपः कंबलश्चापि तक्षकश्च महाबलः। एते नागा महात्मानस्तस्मै प्रांजलयः स्थिताः
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः। वारुणिश्चैवारुणिश्च वैनतेया व्यवस्थिताः
नारायणश्च भगवान्स्वयमागत्य लोकवान्। प्राह लोकगुरुं श्रीमान्सहसर्वैर्महर्षिभिः
त्वया ततमिदं सर्वं त्वया सृष्टं जगत्पते। तस्माल्लोकेश्वरश्चासि पद्मयोने नमोस्तु ते
यदत्र ते मया कार्यं कर्तव्यं च तदादिश। एवं प्रोवाच भगवान्सार्धं देवर्षिभिः प्रभुः
नमस्कृत्य सुरेशाय ब्रह्मणेऽव्यक्तजन्मने। स च तत्रस्थितो ब्रह्मा तेजसा भासयन्दिशः