परद्रव्यापहाराश्च परव्यसनमोहिताः । कथं न यांति नरकं ब्रह्मंस्तद्ब्रूहि तत्त्वतः
अनायासेन भगवन्दानेनाल्पेन केनचित् । पापं प्रशमनं याति एतन्मे वक्तुमर्हसि
पुलस्त्य उवाच- साधुसाधु महाभाग गुह्यमेतत्सुदुर्ल्लभम् । यन्न कस्यचिदाख्यातं विष्णुब्रह्मेंद्रदैवतैः
तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम । माघमासे तु संप्राप्ते शुचिस्नातो जितेंद्रियः
कामक्रोधाभिमानेर्ष्यालोभ पैशुन्य वर्जितः । देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिभिः
भूमावपतितं गृह्य गोमयं तत्र मानवः । तिलान्प्रक्षिप्य कार्पांसं पिंडिकाश्चैव कारयेत्
अष्टोत्तरशतं चैव नात्र कार्या विचारणा । ततो माघे च संप्राप्ते ह्याषाढर्क्षं भवेद्यदि
मूलं वा कृष्णपक्षस्यैकादशी नियमांस्ततः । गृह्णीयात्पुण्यकाले च विधानं तत्र मे शृणु
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः । कृष्णनामानि संकीर्त्य पुनः प्रस्खलितादिषु
रात्रौ जागरणं कुर्यादादौ होमं च कारयेत् । अर्चयेद्देवदेवेशं द्वितीयेऽह्नि पुनर्हरिम्
चंदनागुरुकर्पूरैर्नैवेद्यं कृसरं तथा । संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः
कूष्मांडैर्नारिकेरैश्च ह्यथवा बीजपूरकैः । सर्वाभावेऽपि विप्रेंद्र शस्तपूगफलैर्वृतम् । अर्घं दद्याद्विधानेन पूजयित्वा जनार्दनम्
कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव । संसारार्णव मग्नानां प्रसीद पुरुषोत्तम
नमस्ते पुंडरीकाक्ष नमस्ते विश्वभावन । सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज । गृहाणार्घ्यं मया दत्तं लक्ष्म्या सह जगत्पते
इत्यर्घमंत्रः । ततस्तु पूजयेद्विप्रमुदकुंभं प्रदापयेत् । छत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति
कृष्णा धेनुः प्रदातव्या यथाशक्ति द्विजोत्तमे । तिलपात्रं द्विजश्रेष्ठ दद्यात्पात्रविचक्षणः
स्नाने प्राशनके शस्तास्तथा कृष्णतिला मुने । तान्प्रदद्यात्प्रयत्नेन यथाशक्ति द्विजोत्तमे । तिलप्ररोहजाः क्षत्रे यावत्संख्यास्तिला द्विज
तावद्वर्षसहस्राणि स्वर्गलोके महीयते । तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी
तिलदाता च भोक्ता च षट्तिलाः पापनाशनाः । नारद उवाच- कृष्णकृष्ण महाबाहो नमस्ते विश्वभावन
षट्तिलैकादशीभूतं कीदृशं फलमस्ति वै । सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव । श्रीकृष्ण उवाच शृणु राजन्यथावृत्तं दृष्टं तत्कथयामि ते । मर्त्यलोके पुरा ह्यासीद्ब्राह्मण्येका च नारद । व्रतचर्यारता नित्यं देवपूजारता सदा
मासोपवासनिरता मम भक्ता च सर्वदा । कृष्णोपवाससंयुक्ता मम पूजापरायणा
शरीरं क्लेशितं चैव उपवासैर्द्विजोत्तम । देवानां ब्राह्मणानां च कुमारीणां च भक्तितः
गृहादिकं प्रयच्छंती सर्वकालं महासती । अतिकृच्छ्ररता सा तु सर्वकालं तु वै द्विज
न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः
ततः कालेन महता मया वै चिंतितं द्विज । शुद्धमस्याः शरीरं हि व्रतैः कृच्छ्रैर्न संशयः
अर्चितो वैष्णवो लोकः कायक्लेशेन वै तया । न दत्तमन्नदानं हि येन तृप्तिः परा भवेत्
एवं ज्ञात्वा अहं ब्रह्मन्मर्त्यलोकमुपागतः । कापालं रूपमास्थाय भिक्षापात्रे च याचिता
कस्मात्त्वमागतो ब्रह्मन्क्व यासि वद मेऽग्रतः । पुनरेव मया प्रोक्तं देहि भिक्षां च सुंदरि
तया कोपेन महता मृत्पिंडस्ताम्रभाजने । क्षिप्तो यावदहं ब्रह्मन्पुनः स्वर्गं गतो द्विज
ततः कालेन महता तापसी सुमहाव्रता । सदेहा स्वर्गमायाता व्रतचर्या प्रभावतः