अपत्यैरपि हीनानां नैव दुःखं भविष्यति। गौरी चैव तु गायत्र्या तदा सापि विबोधिता
बृंहिता परितोषेण वरान्दत्त्वा मनस्विनी। समाप्तिंतस्य यज्ञस्य काञ्क्षन्तीब्रह्मणःप्रिया
वरदां तां तथा दृष्ट्वा गायत्रीं वेदमातरम्। प्रणिपत्य तदा रुद्रः स्तुतिमेतां चकार ह
"रुद्र उवाच। नमोस्तु ते वेदमातरष्टाक्षरविशोधिते। गायत्री दुर्गतरणी वाणी सप्तविधा तथा
सर्वाणि स्तुतिशास्त्राणि गाथाश्च निखिलास्तथा। अक्षराणि च सर्वाणि लक्षणानि तथैव च
भाष्यादि सर्वशास्त्राणि ये चान्ये नियमास्तथा। अक्षराणि च सर्वाणि त्वं तु देवि नमोस्तुते
श्वेता त्वं श्वेतरूपासि शशांकेन समानना। बिभ्रती विपुलौ बाहू कदलीगर्भकोमलौ
एणश्रृँगं करे गृह्य पंकजं च सुनिर्मलम्। वसाना वसने क्षौमे रक्तेनोत्तरवाससा
शशिरश्मिप्रकाशेन हारेणोरसि राजिता। दिव्यकुंडलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता
चंद्रसापत्न्यभूतेन मुखेन त्वं विराजसे। मकुटेनातिशुद्धेन केशबंधेन शोभिता
भुजंगाभोगसदृशौ भुजौ ते भूषणन्दिवः। स्तनौ ते रुचिरौ देवि वर्तुलौ समचूचुकौ
जघनेनातिशुभ्रेण त्रिवलीभंगदर्पिता। सुमध्यवर्त्तिनी नाभिर्गंभीरा शुभदर्शिनी
विस्तीर्णजघना देवी सुश्रोणी च वरानने। सुजातवृत्तोरुयुगा सुजानु चरणा तथा
त्रैलोक्यधारिणी सा त्वं भुवि सत्योपयाचना। भविष्यसि महाभागे वरदा वरवर्णिनी
पुष्करे च कृता यात्रा दृष्ट्वा त्वां संभविष्यति। ज्येष्ठे मासेपौर्णमास्यामग्र्यांपूजां च लप्स्यसे
ये च वा त्वत्प्रभावज्ञाः पूजयिष्यंति मानवाः। न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा
कान्तारेषु निमग्नानामटव्यां वा महार्णवे। दस्युभिर्वानिरुद्धानां त्वं गतिः परमा नृणाम्
त्वं सिद्धिःश्रीर्धृतिः कीर्तिर्ह्रीर्विद्या सन्नतिर्मतिः। संध्या रात्रिःप्रभा निद्रा कालरात्रिस्त्वमेव च
अंबा च कमला मातुर्ब्रह्माणी ब्रह्मचारिणी। जननी सर्वदेवानां गायत्री परमांगना
जया च विजया चैव पुष्टिस्त्वं च क्षमा दया। सावित्र्यवरजा चासि सदा चेष्टा पितामहे
बहुरूपा विश्वरूपा सुनेत्रा ब्रह्मचारिणी। सुरूपा त्वं विशालाक्षी भक्तानां परिरक्षिणी
नगरेषु च पुण्येषु आश्रमेषु वरानने। वासस्तव महादेवि वनेषूपवनेषु च
ब्रह्मस्थानेषु सर्वेषु ब्रह्मणो वामतः स्थिता। दक्षिणेन तु सावित्री मध्ये ब्रह्मा पितामहः
अंतर्वेदी च यज्ञानामृत्विजां चापि दक्षिणा। सिद्धिस्त्वंहि नृपाणांच वेला सागरजा मता
ब्रह्मचारिणि या दीक्षा शोभा च परमा मता। ज्योतिषांच प्रभा देवीलक्ष्मीर्नारायणे स्थिता
क्षमा सिद्धिर्मुनीनां च नक्षत्राणां च रोहिणी। राजद्वारेषु तीर्थेषु नदीनां संगमेषु च
पूर्णिमा पूर्णचंद्रे च बुद्धिर्नीत्यां क्षमा धृतिः। उमादेवी च नारीणां श्रूयसे वरवर्णिनी
इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनोपगा। ॠषीणां धर्मबुद्धिस्त्वं देवानां च परायणा
कर्षकाणां च सीता त्वं भूतानां धरणी तथा। स्त्रीणामवैधव्यकरी धनधान्यप्रदा सदा
व्याधिं मृत्युं भयं चैव पूजिता शमयिष्यसि। तथा तु कार्तिके मासि पौर्णमास्यांसुपूजिता