जप्त्वा मां भक्तितः सिद्धिं यास्यंति द्विजसत्तमाः। प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति
गायत्रीसारमात्रोपि वरं विप्रः सुसंयतः। नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी
यस्माद्विप्रेषु सावित्र्या शापो दत्तःसदस्यथ। अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः। अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः
स्वर्गं ते तु गमिष्यंति सैकविंशतिभिः कुलैः। एवं शक्रस्य विष्णोश्च रुद्रस्य पावकस्य च
ब्रह्मणो ब्राह्मणानां च गायत्रीवरमुत्तमम्। तस्मिन्वै पुष्करे दत्त्वा ब्रह्मणःपार्श्वगाऽभवत्
चारणैस्तु तदाऽऽख्यातं लक्ष्म्या वै शापकारणम्। युवतीनाञ्च सर्वासां शापाञ्ज्ञात्वापृथक्पृथक्
लक्ष्म्याश्चैव वरं प्रादाद्गायत्री ब्रह्मणः प्रिया। अकुत्सितान्सदा सर्वान्कुर्वन्ती धनशोभना
शोभिष्यसे न संदेहः सर्वेभ्यः प्रीतिदायिनी। ये त्वया वीक्षिताःपुत्रि सर्वेते पुण्यभोजनाः
परित्यक्तास्त्वया ये तु सर्वे ते दुःखभागिनः। तेषां जातिः कुलं शीलं धर्मश्चैव वरानने
सभायां ते च शोभंते दृश्यंते चैव पार्थिवैः। अर्थित्वं चैव तेषां तु करिष्यंति द्विजोत्तमाः
सौजन्यं तेषु कुर्वंति त्वं नो भ्राता पिता गुरुः। बांधवोपि न संदेहो न जीवेयं त्वया विना
त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना। मनः प्रसीदतेत्यर्थं सत्यं सत्यं वदामि ते
एवंविधानि वाक्यानि त्वद्दृष्ट्या ये निरीक्षिताः। सज्जनास्ते तु श्रोष्यंति जनानां प्रीतिदायकाः
इन्द्रत्वं नहुषः प्राप्य दृष्ट्वा त्वां याचयिष्यति। त्वद्दृष्ट्या तु हतःपापो ह्यगस्त्यवचनाद्ध्रुवम्
सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं तु सः। दर्पेणाहं विनष्टोस्मि शरणं मे मुने भव
वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः। कृत्वा मनसि कारुण्यमिदं वाक्यं वदिष्यति
उत्पत्स्यते कुले राजा त्वदीये कुलनन्दनः। सर्परूपधरं दृष्ट्वा स ते शापं हि भेत्स्यति
तदा त्वं सर्पतां त्यक्त्वा पुनः स्वर्गं गमिष्यसि। अश्वमेधकृतेन त्वं भर्त्रा सह पुनर्दिवम्
प्राप्स्यसे वरदानेन मदीयेन सुलोचने। "पुलस्त्य उवाच। देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः
अपत्यैरपि हीनानां नैव दुःखं भविष्यति। गौरी चैव तु गायत्र्या तदा सापि विबोधिता
बृंहिता परितोषेण वरान्दत्त्वा मनस्विनी। समाप्तिंतस्य यज्ञस्य काञ्क्षन्तीब्रह्मणःप्रिया
वरदां तां तथा दृष्ट्वा गायत्रीं वेदमातरम्। प्रणिपत्य तदा रुद्रः स्तुतिमेतां चकार ह
"रुद्र उवाच। नमोस्तु ते वेदमातरष्टाक्षरविशोधिते। गायत्री दुर्गतरणी वाणी सप्तविधा तथा
सर्वाणि स्तुतिशास्त्राणि गाथाश्च निखिलास्तथा। अक्षराणि च सर्वाणि लक्षणानि तथैव च
भाष्यादि सर्वशास्त्राणि ये चान्ये नियमास्तथा। अक्षराणि च सर्वाणि त्वं तु देवि नमोस्तुते
श्वेता त्वं श्वेतरूपासि शशांकेन समानना। बिभ्रती विपुलौ बाहू कदलीगर्भकोमलौ
एणश्रृँगं करे गृह्य पंकजं च सुनिर्मलम्। वसाना वसने क्षौमे रक्तेनोत्तरवाससा
शशिरश्मिप्रकाशेन हारेणोरसि राजिता। दिव्यकुंडलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता
चंद्रसापत्न्यभूतेन मुखेन त्वं विराजसे। मकुटेनातिशुद्धेन केशबंधेन शोभिता