एकादशसहस्राणि वर्षाणां च पुनर्दिवं। ख्यातिस्ते विपुला लोके अनुरागं जनैस्सह
सान्तानिकानाम तेषां लोका स्थास्यन्ति भाविताः। त्वया ते तारिता देव रामरूपेण मानवाः
गायत्री तु तदा रुद्रंवरदा प्रत्यभाषत। पतितेपिच ते लिंगे पूजां कुर्वंति ये नराः
ते पूताः पुण्यकर्माणः स्वर्गलोकस्य भागिनः। न तां गतिं चाग्निहोत्रे न क्रतौ हुतपावके
यां गतिं मनुजा यांति तव लिंगस्य पूजनात्। गंगातीरे सदा लिंगं बिल्बपत्रेण ये तव
पूजयिष्यंति सुप्राता रुद्रलोकस्य भागिनः। प्राप्यापि शर्वभक्तत्वमग्ने त्वं भव पावनः
त्वयि प्रीते सुराः सर्वे प्रीता वै नात्र संशयः। त्वन्मुखेन हविर्देवैः प्रीताः प्रीते त्वयिध्रुवम्
भुञ्जते नात्र सन्देहो वेदोक्तं वचनं यथा। गायत्री ब्राह्मणांस्तांश्च सर्वांश्चैवाब्रवीदिदं
युष्माकं प्रीणनं कृत्वा सर्वतीर्थेषु मानवाः। पदं सर्वे गमिष्यंति वैराजाख्यं न संशयः
अन्नप्रकारान्विविधान्दत्वा दानान्यनेकशः। श्राद्धेषु प्रीणनं कृत्वा देवदेवा भवन्ति ते
ये च वै ब्राह्मणश्रेष्ठास्तेषामास्ये दिवौकसः। भुञ्जते च हविः क्षिप्रं कव्यं चैवपितामहाः
यूयं हि धारणे शक्तास्त्रैलोक्यस्य न संशयः। प्राणायामेन चैकेन सर्वे पूता भविष्यथ
विशेषात्पुष्करे स्नात्वा मां जप्त्वा वेदमातरं। प्रतिग्रहकृतान्दोषान्न प्राप्स्यथ द्विजोतमाः
पुष्करे चान्नदानेन प्रीताः स्युः सर्वदेवताः। एकस्मिन्भोजिते विप्रेकोट्याः फलमवाप्स्यते
ब्रह्महत्यादिपापानि दुष्कृतानि कृतानि च। करिष्यंति नरास्सर्वे दत्वा युष्मत्करे धनम्
मदीयेन तु जाप्येन पूजनीयस्त्रिभिः कृतैः। ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति
दशभिर्जन्मभिर्जातं शतेन च पुरा कृतं। त्रियुगेन सहस्रेण गायत्री हन्ति किल्बिषं
एवं ज्ञात्वा सदा पूता जाप्ये तु मम वै कृते। भविष्यध्वं न संदेहो नात्र कार्या विचारणा
प्रणवेन त्रिमात्रेण सार्द्धंजप्त्वा विशेषतः। पूताः सर्वे न संदेहो जप्त्वामां शिरसा सह
अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्त्विदं। माताहं सर्ववेदानां पदैः सर्वेरलंकृता
जप्त्वा मां भक्तितः सिद्धिं यास्यंति द्विजसत्तमाः। प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति
गायत्रीसारमात्रोपि वरं विप्रः सुसंयतः। नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी
यस्माद्विप्रेषु सावित्र्या शापो दत्तःसदस्यथ। अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः। अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः
स्वर्गं ते तु गमिष्यंति सैकविंशतिभिः कुलैः। एवं शक्रस्य विष्णोश्च रुद्रस्य पावकस्य च
ब्रह्मणो ब्राह्मणानां च गायत्रीवरमुत्तमम्। तस्मिन्वै पुष्करे दत्त्वा ब्रह्मणःपार्श्वगाऽभवत्
चारणैस्तु तदाऽऽख्यातं लक्ष्म्या वै शापकारणम्। युवतीनाञ्च सर्वासां शापाञ्ज्ञात्वापृथक्पृथक्
लक्ष्म्याश्चैव वरं प्रादाद्गायत्री ब्रह्मणः प्रिया। अकुत्सितान्सदा सर्वान्कुर्वन्ती धनशोभना
शोभिष्यसे न संदेहः सर्वेभ्यः प्रीतिदायिनी। ये त्वया वीक्षिताःपुत्रि सर्वेते पुण्यभोजनाः
परित्यक्तास्त्वया ये तु सर्वे ते दुःखभागिनः। तेषां जातिः कुलं शीलं धर्मश्चैव वरानने