भ्रामयेन्नगरं सर्वं नानावाद्यसमन्वितः। स्नपयेद्भ्रमयित्वा तु सलोकं नगरं नृप
ब्राह्मणान्भोजयित्वाग्रे शाण्डिलेयं प्रपूज्य च। आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः
रथाग्रे शाण्डिलीपुत्रं पूजयित्वा विधानतः। ब्राह्मणान्वाचयित्वातु कृत्वा पुण्याहमङ्गलम्
देवमारोपयित्वा च रथे कुर्यात्प्रजागरं। नानाविधैः प्रेक्षणिकैर्ब्रह्मघौषैश्च पुष्कलैः
कृत्वा प्रजागरं देवं प्रभाते ब्राह्मणान्नृप। भोजयित्वा यथाशक्ति भक्ष्यभोज्यैरनेकशः
पूजयित्वा जनं धीर मंत्रेण विधिवन्नृप। आज्येन तु महाबाहो पयसा पायसेन च
ब्राह्मणान्वाचयित्वा तु स्वस्त्या तु विधिवन्नृप। कृत्वा पुण्याहशब्दं च तद्रथं भ्रामयेत्पुरे
विप्रैश्चतुर्वेदविद्भिर्भ्रामयेद्ब्रह्मणो रथम्। बह्वृवृचाथर्वणैर्वीरछन्दोगाध्वर्युभिस्तथा
भ्रामयेद्देवदेवस्य सुरश्रेष्ठस्य तं रथं। प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु
न वोढव्यो रथो वीर रूद्रेण हितमिच्छता। न चारोहेद्रथं प्राज्ञो मुक्त्वैकं भोजकं नृपः
ब्रह्मणो दक्षिणे पार्श्वे गायत्रीं स्थापयेन्नृप। भोजकं वामपार्श्वे तुपुरतःपंङ्कजं न्येसेत्
एवं तूर्यनिनादैस्तु शङ्ख शब्दैश्च पुष्कलैः। भ्रामयित्वा रथं वीर पुरं सर्वं प्रदक्षिणम्
स्वस्थाने स्थापयेद्देवं दत्वा नीराजनं बुधः। यएवं कुरुते यात्रां यो वा भक्त्यापिपश्यति
रथं वा कर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदं। *कार्तिके मास्यमावास्यां यश्च दीपप्रदीपनं
शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम्। गन्धपुष्पैर्नवैर्वस्त्रैरात्मानं पूजयेत्तु यः
तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम्। महापुण्यातिथिरियं *-बलिराज्यप्रवर्तिनी
ब्रह्मणः सुप्रिया नित्यं बालेयी परिकीर्तिता। ब्रह्माणं पूजयेद्योऽस्यामात्मानं च विशेषतः
स याति परमं स्थानं विष्णोरमिततेजसः। चैत्रे मासि महाबाहो पुण्या प्रतिपदां वरा
तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तमः। न तस्य दुरितं किंचिन्नाधयो व्याधयो नृप
भवन्ति कुरुशार्दूल तस्मात्स्नानं समाचरेत्। दिव्यं नीराजनंतद्धि सर्वरोगविनाशनं
गोमहिष्यादि यत्किंचित्तत्सर्वं कर्षयेन्नृप। तेन वस्त्रादिभिः सर्वैस्तोरणंबाह्यतो न्यसेत्
******* ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वह। तिस्रो ह्येताः पुरा प्रोक्तास्तिथयः कुरुनन्दन
कार्तिकाश्वयुजे मासि चैत्रेमासि तथा नृप। स्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप
बलिराज्ञस्तु शुभदा पशूनां हितकारिणी। "गायत्र्युवाच। यदुक्तं तु तया वाक्यं सावित्र्या कमलोद्भवं
न तु ते ब्राह्मणाः पूजां करिष्यन्ति कदाचन। मदीयं तु वचःश्रुत्वा ये करिष्यन्ति चार्चनं
इह भुक्त्वा तु भोगांस्ते परत्र मोक्षभागिनः। एतां ज्ञात्वा परां दृष्टिं वरं तुष्टः प्रयच्छति
शक्राहं ते वरं दास्ये संग्रामे शत्रुनिग्रहे। तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम्
स्वपुरं लप्स्यसे नष्टं शत्रुनाशात्परां मुदं। अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति
मर्त्यलोके यदा विष्णो अवतारं करिष्यसि। भ्रात्रा सह परं दुःखं स्वभार्याहरणादिजं
हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ। गृहीत्वातां पुनाराज्यं कृत्वा स्वर्गंगमिष्यसि