सूर्यबिम्बे प्रभानाम मातॄणां वैष्णवी तथा। अरुन्धती सतीनां तु रामासु च तिलोत्तमा
चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणां। एतद्भक्त्या मया प्रोक्तं नामाष्टशतमुत्तमं
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतं। यो जपेच्छ्रुणुयाद्वापि सर्वपापैः प्रमुच्यते
येषु तीर्थेषु यः कृत्वा स्नानं पश्येन्नरोत्तमः। सर्वपापविनिर्मुक्तः कल्पं ब्रह्मपुरे वसेत्
नामाष्टकशतं यस्तु श्रावयेद्ब्रह्मसन्निधौ। पौर्णमास्याममायां वा बहुपुत्रो भवेन्नरः
गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः। देवार्चनविधौ शृण्वन्परं ब्रह्माधिगच्छति
एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता। सम्यक्स्तुता त्वया पुत्र त्वमजय्योभविष्यसि
अवतारे सदारस्त्वं पितृमातृषु वल्लभः। इह चागत्य यो मां तु स्तवेनानेन संस्तुयात्
सर्वपापविनिर्मुक्तः परं स्थानं गमिष्यति। गच्छयज्ञं विरिञ्चस्य समाप्तिं नय पुत्रक
कुरुक्षेत्रे प्रयागे च भविष्ये चान्नदायिनी। समीपगा स्थिता भर्त्तुःकरिष्ये तव भाषितम्
एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तम्। गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत्
शृण्वन्तु वाक्यमृषयो मदीयं भर्तृसन्निधौ। यदिदं वच्म्यहं तुष्टा वरदानाय चोद्यता
ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः। तेषां वस्त्रं धनंधान्यं दाराःसौख्यं धनानि च
अविच्छिन्नं तथा सौख्यं गृहे वै पुत्रपौत्रकम्। भुक्त्वासौ सुचिरं कालमंते मोक्षं गमिष्यति
"पुलस्त्य उवाच। ब्रह्माणं च प्रतिष्ठाप्य सर्वयत्नैर्विधानतः। यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु
सर्वयज्ञ तपो दान तीर्थ वेदेषु यत्फलम्। तत्फलं कोटिगुणितं लभेतैतत्प्रतिष्ठया
पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप। अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः
प्रतिपदि महाबाहो स याति ब्रह्मणः पदम्। विरिञ्चिं वासुदेवं तु ऋत्विग्भिश्च विशेषतः
कार्तिके मासि देवस्य रथयात्रा प्रकीर्तिता। यांकृत्वावामानवाभक्त्यासंयान्तिब्रह्मलोकताम्
कार्तिके मासि राजेंद्र पौर्णमास्यां चतुर्मुखम्। मार्गेण ब्रह्मणा सार्द्धं सावित्र्या च परंतप
भ्रामयेन्नगरं सर्वं नानावाद्यसमन्वितः। स्नपयेद्भ्रमयित्वा तु सलोकं नगरं नृप
ब्राह्मणान्भोजयित्वाग्रे शाण्डिलेयं प्रपूज्य च। आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः
रथाग्रे शाण्डिलीपुत्रं पूजयित्वा विधानतः। ब्राह्मणान्वाचयित्वातु कृत्वा पुण्याहमङ्गलम्
देवमारोपयित्वा च रथे कुर्यात्प्रजागरं। नानाविधैः प्रेक्षणिकैर्ब्रह्मघौषैश्च पुष्कलैः
कृत्वा प्रजागरं देवं प्रभाते ब्राह्मणान्नृप। भोजयित्वा यथाशक्ति भक्ष्यभोज्यैरनेकशः
पूजयित्वा जनं धीर मंत्रेण विधिवन्नृप। आज्येन तु महाबाहो पयसा पायसेन च
ब्राह्मणान्वाचयित्वा तु स्वस्त्या तु विधिवन्नृप। कृत्वा पुण्याहशब्दं च तद्रथं भ्रामयेत्पुरे
विप्रैश्चतुर्वेदविद्भिर्भ्रामयेद्ब्रह्मणो रथम्। बह्वृवृचाथर्वणैर्वीरछन्दोगाध्वर्युभिस्तथा
भ्रामयेद्देवदेवस्य सुरश्रेष्ठस्य तं रथं। प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु
न वोढव्यो रथो वीर रूद्रेण हितमिच्छता। न चारोहेद्रथं प्राज्ञो मुक्त्वैकं भोजकं नृपः