एतावदुक्त्वा सारुह्य तस्मात्स्थानद्गिरौ स्थिता। विष्णुस्तदग्रतःस्थित्वाबध्वा च करसम्पुटं
तुष्टाव प्रणतो भूत्वा भक्त्या परमयास्थितः। "विष्णुरुवाच। सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतोद्भुता
सदसच्चैव यत्किंचिद्दृश्यं तन्न विना त्वया। तथापियेषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः
स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि तेग्रतः। सावित्री पुष्करेनाम तीर्थानां प्रवरे शुभे
वाराणस्यां विशालाक्षी नैमिषे लिंगधारिणी। प्रयागे ललितादेवी कामुका गन्धमादने
मानसे कुमुदा नाम विश्वकाया तथाम्बरे। गोमन्ते गोमती नाम मन्दरेकामचारिणी
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे। कान्यकुब्जे तथा गौरीरम्भा मलयपर्वते
एकाम्रके कीर्तिमती विश्वा विश्वेश्वरी तथा। कर्णिके पुरुहस्तेति केदारे मार्गदायिका
नन्दा हिमवतः पृष्टे गोकर्णे भद्रकालिका। स्थाण्वीश्वरे भवानी तु बिल्वकेबिल्वपत्रिका
श्रीशैले माधवीदेवी भद्राभद्रेश्वरी तथा। जया वराहशैले तु कमलाकमलालये
रुद्रकोट्यां तुरुद्राणी काली कालञ्जरे तथा। महालिंगे तु कपिला कर्कोटे मंगलेश्वरी
शालिग्रामे महादेवी शिवलिंगेजलप्रिया। मायापुर्यां कुमारीतु सन्तानेललितातथा
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला। गयायां मंगला नाम विमला पुरुषोत्तमे
विपाशायाममोघाक्षी पाटला पुण्यवर्द्धने। नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुंदरी
विपुले विपुला नाम कल्याणी मलयाचले। कोटवी कोटितीर्थे तु सुगंधा माधवीवने
कुब्जाम्रके त्रिसन्ध्या तु गंगाद्वारे हरिप्रिया। शिवकुण्डे शिवानंदा नन्दिनी देविकातटे
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने तथा। देवकी मथुरायां तु पाताले परमेश्वरी
चित्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी। सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका
रमणा रामतीर्थे तु यमुनायां मृगावती। करवीरे महालक्ष्मी रुमादेवी विनायके
अरोगा वैद्यनाथे तु महाकाले महेश्वरी। अभया पुष्पतीर्थे तु अमृता विंध्यकन्दरे
माण्डव्ये माण्डवी देवी स्वाहा माहेश्वरे पुरे। वेगले तु प्रचण्डाथ चण्डिकामरकण्टके
सोमेश्वरे वरारोहा प्रभासे पुष्करावती। देवमाता सरस्वत्यांपारापारे तटे स्थिता
महालये महापद्मापयोष्ण्यां पिंगलेश्वरी। सिंहिका कृतशौचे तु कार्तिकेये तु शंकरी
उत्पलावर्तके लोला सुभद्रा सिन्धुसंगमे। उमा सिद्धवने लक्ष्मीरनंगा भरताश्रमे
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते। देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले
भीमा देवी हिमाद्रौ च तुष्टिर्वस्त्रेश्वरे तथा। कपालमोचने श्रद्धा माता कायावरोहणे
शङ्खोद्धारे ध्वनिर्नाम धृतिःपिण्डारके तथा। काला तु चन्द्रभागायामच्छोदे सिद्धिदायिनी
वेणायाममृता देवी वदर्यामूर्वशी तथा। औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी। अश्वत्थेवन्दनीया तु निधिर्वै श्रवणालये
गायत्री वेदवदने पार्वती शिवसन्निधौ। देवलोके तथेंद्राणी ब्रह्मास्ये तु सरस्वती