ब्राह्मणानृत्विजः सर्वान्सावित्रीवैशशाप ह। प्रतिग्रहार्थाग्निहोत्रोवृथाटव्याश्रयास्तथा
सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथ। परान्नेषु सदातृप्ता अतृप्तास्स्वगृहेषु च
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम्। वृथाधनार्जनं कृत्वा व्ययं चैव तथा वृथा
प्रेतानां तेन प्रेतत्वं भविष्यति न संशयः। एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपद्रुषा। शापं दत्वा तथातेषां निष्क्रांता सदसस्तथा
ज्येष्ठं पुष्करमासाद्य तदासा च व्यवस्थिता। लक्ष्मींप्राह सतीं तां चशक्रभार्यां वराननाम्
युवतीस्तास्तथोवाच नात्र स्थास्यामि सन्सदि। तत्रचाहं गमिष्यामि यत्रश्रोष्ये न च ध्वनिम्
ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वनिकेतनम्। सावित्री कुपिता तासामपि शापाय चोद्यता
यस्मान्मां तु परित्यज्य गतास्ता देवयोषितः। तासामपि तथा शापंप्रदास्येकुपिता भृशम्
नैकत्रवासो लक्ष्म्यास्तु भविष्यतिकदाचन। क्षुद्रा सा चलचित्ता चमूर्खेषु चवसिष्यति
म्लेच्छेषु पार्वतीयेषु कुत्सिते कुत्सिते तथा। मूर्खेषु चावलिप्तेषु अभिशप्ते दुरात्मनि
एवंविधे नरे स्यात्ते वसतिःशापकारिता। शापं दत्वाततस्तस्या इन्द्राणीमशपत्ततदा
ब्रह्महत्या गृहीतेंद्रे पत्यौ तेदुःखभागिनि। नहुषापहृते राज्ये दृष्ट्वा त्वांयाचयिष्यति
अहमिन्द्रः कथं चैषा नोपस्थास्यति बालिशा। सर्वान्देवान्हनिष्यामि न लप्स्येहं शचीं यदि
नष्टा त्वं च तदा त्रस्ता वाक्पतेर्दुःखिता गृहे। वसिष्यसे दुराचारे मम शापेन गर्विते
देवभार्यासु सर्वासु तदा शापमयच्छत। न चापत्यकृतां प्रीतिमेताः सर्वा लभिष्यथ
दह्यमाना दिवारात्रौ वंध्याशब्देन दूषिताः। गौर्य्यप्येवं तदा शप्ता सावित्र्या वरवर्णिनी
रुदमाना तु सा दृष्टा विष्णुना च प्रसादिता। मा रोदीस्त्वंविशालाक्षि एह्यागच्छ सदाशुभे
प्रविश्य च सभां देहि मेखलां क्षौमवाससी। गृहाण दीक्षां ब्रह्माणिपादौ च प्रणमामि ते
एवमुक्ताऽब्रवीदेनं न करोमि वचस्तव। तत्रचाहं गमिष्यामि यत्रश्रोष्ये न वै ध्वनिम्
एतावदुक्त्वा सारुह्य तस्मात्स्थानद्गिरौ स्थिता। विष्णुस्तदग्रतःस्थित्वाबध्वा च करसम्पुटं
तुष्टाव प्रणतो भूत्वा भक्त्या परमयास्थितः। "विष्णुरुवाच। सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतोद्भुता
सदसच्चैव यत्किंचिद्दृश्यं तन्न विना त्वया। तथापियेषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः
स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि तेग्रतः। सावित्री पुष्करेनाम तीर्थानां प्रवरे शुभे
वाराणस्यां विशालाक्षी नैमिषे लिंगधारिणी। प्रयागे ललितादेवी कामुका गन्धमादने
मानसे कुमुदा नाम विश्वकाया तथाम्बरे। गोमन्ते गोमती नाम मन्दरेकामचारिणी
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे। कान्यकुब्जे तथा गौरीरम्भा मलयपर्वते
एकाम्रके कीर्तिमती विश्वा विश्वेश्वरी तथा। कर्णिके पुरुहस्तेति केदारे मार्गदायिका
नन्दा हिमवतः पृष्टे गोकर्णे भद्रकालिका। स्थाण्वीश्वरे भवानी तु बिल्वकेबिल्वपत्रिका
श्रीशैले माधवीदेवी भद्राभद्रेश्वरी तथा। जया वराहशैले तु कमलाकमलालये