यद्येष ते स्थिरो भावस्तिष्ठ देव नमोस्तुते। अहंकथंसखीनांतु दर्शयिष्यामि वैमुखम्
भर्त्रा मे विधृता पत्नी कथमेतदहं वदे। "ब्रह्मोवाच। ऋत्विग्भिस्त्वरितश्चाहं दीक्षाकालादनंतरम्
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय। शक्रेणैषा समानीता दत्तेयं मम विष्णुना
गृहीता च मया सुभ्रु क्षमस्वैतं मया कृतम्। न चापराधं भूयोन्यं करिष्ये तव सुव्रते
पादयोः पतितस्तेहं क्षमस्वेह नमोस्तुते। "पुलस्त्य उवाच। एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता
यदि मेस्ति तपस्तप्तं गुरवो यदि तोषिताः। सर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च
नैव ते ब्राह्मणाः पूजां करिष्यंति कदाचन। ॠते तु कार्तिकीमेकां पूजां सांवत्सरीं तव
करिष्यन्ति द्विजाः सर्वे मर्त्या नान्यत्र भूतले। एतद्ब्रह्माणमुक्त्वाह शतक्रतुमुपस्थितम्
भोभोः! शक्र त्वयानीता आभीरी ब्रह्मणोन्तिकम्। यस्मात्ते क्षुद्रकंकर्मतस्मात्वं लप्स्यसे फलम्
यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि। तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम्
अकिञ्चनो नष्टसत्वः शत्रूणां नगरे स्थितः। पराभवं महत्प्राप्य न चिरादेव मोक्ष्यसे
शक्रं शप्त्वा तदा देवी विष्णुं वाक्यमथाब्रवीत्। भृगुवाक्येन ते जन्म यदा मर्त्ये भविष्यति
भार्यावियोगजं दुःखं तदा त्वं तत्र भोक्ष्यसे। हृतातेशत्रुणा पत्नी परे पारो महोदधेः
न च त्वं ज्ञास्यसे नीतां शोकोपहतचेतनः। भ्रात्रा सह परं कष्टामापदं प्राप्य दुःखितः
यदा यदुकुले जातः•★कृष्णसंज्ञो भविष्यसि। पशूनां दासतां प्राप्य चिरकालं भ्रमिष्यसि
तदाह रुद्रं कुपिता यदा दारुवने स्थितः। तदा त ॠषयः क्रुद्धाःशापं दास्यन्तिवै हर
भोभोः !कापालिक क्षुद्र स्त्रीरस्माकं जिहीर्षसि। तदेतद्दर्पितं तेद्य भूमौ लिङ्गंपतिष्यति
विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः। गङ्गाद्वारेस्थिता पत्नी सा त्वामाश्वासयिष्यति
अग्ने त्वं सर्वभक्षोसि पूर्वं पुत्रेण मे कृतः। भृगुणा धर्मनित्येन कथं दग्धं दहाम्यहम्
जातवेदस्स रुद्रस्त्वां रेतसा प्लावयिष्यति। अमेध्येषु च तेजिह्वा अधिकं प्रज्वलिष्यति
ब्राह्मणानृत्विजः सर्वान्सावित्रीवैशशाप ह। प्रतिग्रहार्थाग्निहोत्रोवृथाटव्याश्रयास्तथा
सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथ। परान्नेषु सदातृप्ता अतृप्तास्स्वगृहेषु च
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम्। वृथाधनार्जनं कृत्वा व्ययं चैव तथा वृथा
प्रेतानां तेन प्रेतत्वं भविष्यति न संशयः। एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपद्रुषा। शापं दत्वा तथातेषां निष्क्रांता सदसस्तथा
ज्येष्ठं पुष्करमासाद्य तदासा च व्यवस्थिता। लक्ष्मींप्राह सतीं तां चशक्रभार्यां वराननाम्
युवतीस्तास्तथोवाच नात्र स्थास्यामि सन्सदि। तत्रचाहं गमिष्यामि यत्रश्रोष्ये न च ध्वनिम्
ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वनिकेतनम्। सावित्री कुपिता तासामपि शापाय चोद्यता
यस्मान्मां तु परित्यज्य गतास्ता देवयोषितः। तासामपि तथा शापंप्रदास्येकुपिता भृशम्
नैकत्रवासो लक्ष्म्यास्तु भविष्यतिकदाचन। क्षुद्रा सा चलचित्ता चमूर्खेषु चवसिष्यति