त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः। सभासदस्तथा भीतास्तथा चान्ये दिवौकसः
पुत्राःपौत्रा भागिनेया मातुला भ्रातरस्तथा। ऋभवो नाम ये देवा देवानामपि देवताः
वैलक्ष्येवस्थिताः सर्वे सावित्री किं वदिष्यति। ब्रह्मपार्श्वे स्थिता तत्र किंतु वै गोपकन्यका
मौनीभूता तु शृण्वाना सर्वेषां वदतां गिरः। अद्ध्वर्युणा समाहूता नागता वरवर्णिनी
शक्रेणान्याहृता-आभीरादत्ता सा विष्णुनास्वयम्। अनुमोदिताचरुद्रेणपित्राऽदत्तास्वयं तथा
कथं सा भविता यज्ञे समाप्तिं वा व्रजेत्कथम्। एवं चिंतयतां तेषां प्रविष्टा कमलालया
वृतो ब्रह्मासदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथा। हूयंते चाग्नयस्तत्र ब्राह्मणैर्वैदपारगैः
पत्नीशालास्थिता गोपी सैणश्रृँगा समेखला। क्षौमवस्त्रपरीधाना ध्यायंती परमं पदम्
पतिव्रता पतिप्राणा प्राधान्ये च निवेशिता। रूपान्विता विशालाक्षी तेजसा भास्करोपमा
द्योतयन्ती सदस्तत्र सूर्यस्येव यथा प्रभा। ज्वलमानं तथा वह्निं श्रयन्ते ऋत्विजस्तथा
पशूनामिह गृह्णानाभागं स्वस्व चरोर्मुदा। यज्ञभागार्थिनो देवा विलम्बाद्ब्रुवते तदा
कालहीनं न कर्तव्यं कृतं न फलदं यतः। वेदेष्वेवमधीकारो दृष्टःसर्वैर्मनीषिभिः
प्रावर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः। क्षीरद्वयेन संयुक्त शृतेनाध्वर्युणा तथा
उपहूतेनागते नचाहूतेषु द्विजन्मसु। क्रियमाणे तथाभक्ष्ये दृष्ट्वा देवी रुषान्विता
उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम्। किमेतद्युज्यते देव कर्तुमेतद्विचेष्टितम्
मां परित्यज्य यत्कामात्कृतवानसि किल्बिषम्। नतुल्यापादरजसा ममैषा या शिरः कृता
यद्वदन्ति जनास्सर्वे संगताः सदसि स्थिताः। आज्ञामीश्वरभूतानां तां कुरुष्व यदीच्छसि
भवता रूपलोभेन कृतं लोकविगर्हितम्। पुत्रेषु नकृतालज्जा पौत्रेषुचन ते प्रभो
कामकारकृतं मन्य एतत्कर्मविगर्हितम्। पितामहोसि देवानामृषीणां प्रपितामहः
कथं न ते त्रपा जाता आत्मनःपश्यतस्तनुम्। लोकमध्येकृतं हास्यमहं चापकृता प्रभो
यद्येष ते स्थिरो भावस्तिष्ठ देव नमोस्तुते। अहंकथंसखीनांतु दर्शयिष्यामि वैमुखम्
भर्त्रा मे विधृता पत्नी कथमेतदहं वदे। "ब्रह्मोवाच। ऋत्विग्भिस्त्वरितश्चाहं दीक्षाकालादनंतरम्
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय। शक्रेणैषा समानीता दत्तेयं मम विष्णुना
गृहीता च मया सुभ्रु क्षमस्वैतं मया कृतम्। न चापराधं भूयोन्यं करिष्ये तव सुव्रते
पादयोः पतितस्तेहं क्षमस्वेह नमोस्तुते। "पुलस्त्य उवाच। एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता
यदि मेस्ति तपस्तप्तं गुरवो यदि तोषिताः। सर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च
नैव ते ब्राह्मणाः पूजां करिष्यंति कदाचन। ॠते तु कार्तिकीमेकां पूजां सांवत्सरीं तव
करिष्यन्ति द्विजाः सर्वे मर्त्या नान्यत्र भूतले। एतद्ब्रह्माणमुक्त्वाह शतक्रतुमुपस्थितम्
भोभोः! शक्र त्वयानीता आभीरी ब्रह्मणोन्तिकम्। यस्मात्ते क्षुद्रकंकर्मतस्मात्वं लप्स्यसे फलम्
यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि। तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम्