अतः परं प्रवक्ष्यामिसावित्र्या ब्रह्मणा सह। वादो यथानुभूतस्तु परिहासकृतो महान्
सावित्रीगमने सर्वा-आगता देवयोषितः। भृगोःख्यात्यां समुत्पन्नाविष्णुपत्नी यशस्विनी
आमन्त्रिता सदा लक्ष्मीस्तत्रायाता त्वरान्विता। मदिराच महाभागा योगनिद्रा विभूतिदा
श्रीः कमलालयाभूतिः कीर्तिः श्रद्धा मनस्विनी। पुष्टितुष्टिप्रदा या तु देव्या एताः समागताः
सती या दक्षतनया उमेति पार्वती शुभा। त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायिनी
जया च विजया चैव मधुच्छन्दामरावती। सुप्रिया जनकान्ता च सावित्र्या मंदिरे शुभे
गौर्या सह समायातास्सुवेषा भरणान्विताः। पुलोमदुहिता चैव शक्राणी च सहाप्सराः
स्वाहा चापि स्वधाऽऽयाता धूमोर्णा च वरानना। यक्षी तु राक्षसी चैव गौरी चैव महाधना
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया। देवकन्यास्तथाऽऽयाता दानव्यो दनुवल्लभाः
सप्तर्षीणां महापत्न्य ऋषीणां च वरांगनाः। एवं भगिन्यो दुहिता विद्याधरीगणास्तथा
राक्षस्यः पितृकन्याश्च तथान्या लोकमातरः। वधूभिः सस्नुषाभिश्च सावित्री गन्तुमिच्छति
अदित्याद्यास्तथा सर्वा दक्षकन्यास्समागताः। ताभिः परिवृता साध्वी ब्रह्माणी कमलालया
काचिन्मोदकमादाय काचिच्छूर्पं वरानना। फलपूरितमादाय प्रयाता ब्रह्मणोंतिकम्
आढकीः सह निष्पावा गृहीत्वान्यास्तथापरा। दाडिमानि विचित्राणि मातुलिंगानि शोभना
करीराणि तथा चान्या गृहीत्वा कमलानि च। कौसुंभकं जीरकं च खर्जूरमपरा तथा
उत्तमान्यपरादाय नालिकेराणि सर्वशः। द्राक्षयापूरितं काचित्पात्रंश्रृँगाटकंतथा
कर्पूराणि विचित्राणि जंबूकानि शुभानि च। अक्षोटामलकान्गृह्य जम्बीराणि तथापरा
बिल्वानि परिपक्वानि चिपिटानि वरानना। कार्पासतूलिकाश्चान्या वस्त्रं कौसुम्भकं तथा
एवमाद्यानि चान्यानि कृत्वा शूर्पे वराननाः। सावित्र्यासहिताःसर्वाः संप्राप्ताःसहसाशुभाः
सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरन्दरः। अधोमुखः स्थितोब्रह्मा किमेषा मांवदिष्यति
त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः। सभासदस्तथा भीतास्तथा चान्ये दिवौकसः
पुत्राःपौत्रा भागिनेया मातुला भ्रातरस्तथा। ऋभवो नाम ये देवा देवानामपि देवताः
वैलक्ष्येवस्थिताः सर्वे सावित्री किं वदिष्यति। ब्रह्मपार्श्वे स्थिता तत्र किंतु वै गोपकन्यका
मौनीभूता तु शृण्वाना सर्वेषां वदतां गिरः। अद्ध्वर्युणा समाहूता नागता वरवर्णिनी
शक्रेणान्याहृता-आभीरादत्ता सा विष्णुनास्वयम्। अनुमोदिताचरुद्रेणपित्राऽदत्तास्वयं तथा
कथं सा भविता यज्ञे समाप्तिं वा व्रजेत्कथम्। एवं चिंतयतां तेषां प्रविष्टा कमलालया
वृतो ब्रह्मासदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथा। हूयंते चाग्नयस्तत्र ब्राह्मणैर्वैदपारगैः
पत्नीशालास्थिता गोपी सैणश्रृँगा समेखला। क्षौमवस्त्रपरीधाना ध्यायंती परमं पदम्
पतिव्रता पतिप्राणा प्राधान्ये च निवेशिता। रूपान्विता विशालाक्षी तेजसा भास्करोपमा
द्योतयन्ती सदस्तत्र सूर्यस्येव यथा प्रभा। ज्वलमानं तथा वह्निं श्रयन्ते ऋत्विजस्तथा