कौशिकीति गणो नाम तृतीयो भवतु द्विजाः। त्रिधाबद्धमिदं स्थानं सर्वं युष्मद्भविष्यति
बाह्यतो लोकशब्देन प्रोच्यमानाः प्रजास्त्विह। अविज्ञेयमिदं स्थानं विष्णुः पालयिता ध्रुवम्
मया दत्तं चिरस्थायि अभंगं चभविष्यति। एवमुक्त्वा तदा ब्रह्मा समाप्तिंतामवैक्षत
ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताः। अतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते
एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसंज्ञितम्। तत्रस्था ये द्विजाः शांता वसंति क्षेत्रवासिनः
न तेषां दुर्लभं किंचिद्ब्रह्मलोके भविष्यति। कोकामुखे कुरुक्षेत्रे नैमिषे ऋषिसंगमे
वाराणस्यां प्रभासे च तथा बदरिकाश्रमे। गंगाद्वारे प्रयागे च गंगासागरसंगमे
रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने। तीर्थेष्वेतेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका
प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तम। पुष्करे तु न संदेहो ब्रह्मचर्यमना यदि
तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमम्। सदा तु पूजितं पूज्यैर्भक्तियुक्तैः पितामहे
अतः परं प्रवक्ष्यामिसावित्र्या ब्रह्मणा सह। वादो यथानुभूतस्तु परिहासकृतो महान्
सावित्रीगमने सर्वा-आगता देवयोषितः। भृगोःख्यात्यां समुत्पन्नाविष्णुपत्नी यशस्विनी
आमन्त्रिता सदा लक्ष्मीस्तत्रायाता त्वरान्विता। मदिराच महाभागा योगनिद्रा विभूतिदा
श्रीः कमलालयाभूतिः कीर्तिः श्रद्धा मनस्विनी। पुष्टितुष्टिप्रदा या तु देव्या एताः समागताः
सती या दक्षतनया उमेति पार्वती शुभा। त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायिनी
जया च विजया चैव मधुच्छन्दामरावती। सुप्रिया जनकान्ता च सावित्र्या मंदिरे शुभे
गौर्या सह समायातास्सुवेषा भरणान्विताः। पुलोमदुहिता चैव शक्राणी च सहाप्सराः
स्वाहा चापि स्वधाऽऽयाता धूमोर्णा च वरानना। यक्षी तु राक्षसी चैव गौरी चैव महाधना
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया। देवकन्यास्तथाऽऽयाता दानव्यो दनुवल्लभाः
सप्तर्षीणां महापत्न्य ऋषीणां च वरांगनाः। एवं भगिन्यो दुहिता विद्याधरीगणास्तथा
राक्षस्यः पितृकन्याश्च तथान्या लोकमातरः। वधूभिः सस्नुषाभिश्च सावित्री गन्तुमिच्छति
अदित्याद्यास्तथा सर्वा दक्षकन्यास्समागताः। ताभिः परिवृता साध्वी ब्रह्माणी कमलालया
काचिन्मोदकमादाय काचिच्छूर्पं वरानना। फलपूरितमादाय प्रयाता ब्रह्मणोंतिकम्
आढकीः सह निष्पावा गृहीत्वान्यास्तथापरा। दाडिमानि विचित्राणि मातुलिंगानि शोभना
करीराणि तथा चान्या गृहीत्वा कमलानि च। कौसुंभकं जीरकं च खर्जूरमपरा तथा
उत्तमान्यपरादाय नालिकेराणि सर्वशः। द्राक्षयापूरितं काचित्पात्रंश्रृँगाटकंतथा
कर्पूराणि विचित्राणि जंबूकानि शुभानि च। अक्षोटामलकान्गृह्य जम्बीराणि तथापरा
बिल्वानि परिपक्वानि चिपिटानि वरानना। कार्पासतूलिकाश्चान्या वस्त्रं कौसुम्भकं तथा
एवमाद्यानि चान्यानि कृत्वा शूर्पे वराननाः। सावित्र्यासहिताःसर्वाः संप्राप्ताःसहसाशुभाः
सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरन्दरः। अधोमुखः स्थितोब्रह्मा किमेषा मांवदिष्यति