केनैषा दर्शिता चर्या गुरुणा पापदर्शिना। येनचोन्मत्तवद्वाक्यं वदन्मध्येप्रधावसि
शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः। उप्यमानमिदं बीजं लोकः क्लिश्नातिचान्यथा
मयायं जनितः पुत्रो जनितोनेन चाप्यहम्। महादेवकृते सृष्टिः सृष्टा भार्या हिमालये
उमादत्ता तु रुद्रस्य कस्य सा तनया वद। मूढा यूयं न जानीथ वदतां भगवांस्तु वः
ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना। गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु
कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै। एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः
स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम। किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्
यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः। वदमानमिदं छद्म ब्रह्मरूपधरं हरम्
मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः। कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः
दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्। पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्
ततो देवेन ते शप्ता यूयं वेदविवर्जिताः। ऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः
वेश्यायान्तु रता द्यूते पितृमातृविवर्जिताः। न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति
सर्वे च मोहिताः सन्तु सर्वेंद्रियविवर्जिताः। रौद्रीं भिक्षां समश्नंतु परपिण्डोपजीविनः
आत्मानं वर्तयन्तश्च निर्ममा धर्मवर्जिताः। कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि सांप्रतम्
तेषां धनं च पुत्राश्च दासीदासमजाविकम्। कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह
एवं शापं वरं चैव दत्वान्तर्द्धानमीश्वरः। गतो द्विजागते देवे मत्वा तं शंकरं प्रभुम्
अन्विष्यन्तोपि यत्नेन न चापश्यंत ते यदा। तदा नियमसंपन्नाः पुष्करारण्यमागताः
स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम्। जाप्यावसाने देवस्तानशीररगिराऽब्रवीत्
अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतःपुनः। आगते निग्रहे क्षेमं भूयोपि करवाण्यहम्
शान्ता दांता द्विजा ये तु भक्तिमन्तो मयि स्थिराः। न तेषां छिद्यते वेदो न धनं नापि सन्ततिः
अग्निहोत्ररता ये च भक्तिमन्तो जनार्दने। पूजयन्ति च ब्रह्माणंतेजोराशिं दिवाकरम्
नाशुभं विद्यते तेषां येषां साम्ये स्थिता मतिः। एतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवत्
लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वरात्। आजग्मुः सहितास्सर्वे यत्र देवःपितामहः
विरिञ्चिं संहिताजाप्यैस्तोषयंतोऽग्रतःस्थिताः। तुष्टस्तानब्रवीद्ब्रह्मा मत्तोपि व्रियतां वरः
ब्रह्मणस्तेनवाक्येन हृष्टाः सर्वे द्विजोत्तमाः। को वरो याच्यतां विप्राः परितुष्टे पितामहे
अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च। सान्तानिकाश्च ये लोका वरदानाद्भवंतु नः
एवं प्रजल्पतां तत्र विप्राणां कोपमाविशत्। के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथापरे
नेतिनेति तथा विप्रा द्विजांस्तांस्तत्र संस्थितान्। ब्रह्मोवाचाभिसंप्रेक्ष्य ब्राह्मणान्क्रोधपूरितान्
यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतः स्थिताः। तस्मादामूलिको गुल्मो ह्येको भवतु वोद्विजाः
उदासीनाः स्थिता ये तु उदासीना भवंतु ते। सायुधाबद्धनिस्त्रिंशा योद्धुकामा व्यवस्थिताः