वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम्। सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो।५० 1.17.
"ब्रह्मोवाच। न ते वरं ग्रहीष्यामि दीक्षितोहं सदःस्थितः। सर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह
एवं वदन्तं वरदं क्रतौ तस्मिन्पितामहम्। तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत
ततो मन्वन्तरेतीते पुनरेव प्रभुः स्वयम्। ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शंभुना
चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः। तस्मिन्काले तदा देवो नगरस्यावलोकने
सम्भाषणे द्विजानां तु कौतुकेन सदो गतः। तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः
प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः। प्रहसन्ति च केप्येनं केचिन्निर्भर्त्सयंति च
अपरे पान्सुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः। लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः
प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्। ततोन्ये वटवस्तत्र जटास्वागृह्य चान्तिकम्
पृच्छन्ति व्रतचर्यां तां केनैषा ते निदर्शिता। अत्र वामास्त्रियः संति तासामर्थे त्वमागतः
केनैषा दर्शिता चर्या गुरुणा पापदर्शिना। येनचोन्मत्तवद्वाक्यं वदन्मध्येप्रधावसि
शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः। उप्यमानमिदं बीजं लोकः क्लिश्नातिचान्यथा
मयायं जनितः पुत्रो जनितोनेन चाप्यहम्। महादेवकृते सृष्टिः सृष्टा भार्या हिमालये
उमादत्ता तु रुद्रस्य कस्य सा तनया वद। मूढा यूयं न जानीथ वदतां भगवांस्तु वः
ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना। गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु
कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै। एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः
स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम। किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्
यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः। वदमानमिदं छद्म ब्रह्मरूपधरं हरम्
मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः। कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः
दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्। पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्
ततो देवेन ते शप्ता यूयं वेदविवर्जिताः। ऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः
वेश्यायान्तु रता द्यूते पितृमातृविवर्जिताः। न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति
सर्वे च मोहिताः सन्तु सर्वेंद्रियविवर्जिताः। रौद्रीं भिक्षां समश्नंतु परपिण्डोपजीविनः
आत्मानं वर्तयन्तश्च निर्ममा धर्मवर्जिताः। कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि सांप्रतम्
तेषां धनं च पुत्राश्च दासीदासमजाविकम्। कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह
एवं शापं वरं चैव दत्वान्तर्द्धानमीश्वरः। गतो द्विजागते देवे मत्वा तं शंकरं प्रभुम्
अन्विष्यन्तोपि यत्नेन न चापश्यंत ते यदा। तदा नियमसंपन्नाः पुष्करारण्यमागताः
स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम्। जाप्यावसाने देवस्तानशीररगिराऽब्रवीत्
अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतःपुनः। आगते निग्रहे क्षेमं भूयोपि करवाण्यहम्
शान्ता दांता द्विजा ये तु भक्तिमन्तो मयि स्थिराः। न तेषां छिद्यते वेदो न धनं नापि सन्ततिः