वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसः। स्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः
कथं होमोत्र क्रियते कपाले सदसि स्थिते। कपालान्तान्यशौचानि पुरा प्राह प्रजापतिः
विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहं। उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम्
तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम्। एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो
पञ्चाशच्च शतं चैव सहस्रमयुतं तथा। एवं नान्तः कपालानां प्राप्यते द्विजसत्तमैः
नत्वा कपर्दिनं देवं शरणं समुपागताः। पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम्
तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम्। ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः
उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान्। पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत्
कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो मम। एवं कृते कृतं सर्वं मदीयं शासनं भवेत्
तथेत्यूचुर्द्विजाश्शम्भुं कुर्मो वै तव शासनम्। कपालपाणिराहेशो भगवन्तं पितामहम्
वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम्। सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो।५० 1.17.
"ब्रह्मोवाच। न ते वरं ग्रहीष्यामि दीक्षितोहं सदःस्थितः। सर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह
एवं वदन्तं वरदं क्रतौ तस्मिन्पितामहम्। तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत
ततो मन्वन्तरेतीते पुनरेव प्रभुः स्वयम्। ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शंभुना
चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः। तस्मिन्काले तदा देवो नगरस्यावलोकने
सम्भाषणे द्विजानां तु कौतुकेन सदो गतः। तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः
प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः। प्रहसन्ति च केप्येनं केचिन्निर्भर्त्सयंति च
अपरे पान्सुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः। लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः
प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्। ततोन्ये वटवस्तत्र जटास्वागृह्य चान्तिकम्
पृच्छन्ति व्रतचर्यां तां केनैषा ते निदर्शिता। अत्र वामास्त्रियः संति तासामर्थे त्वमागतः
केनैषा दर्शिता चर्या गुरुणा पापदर्शिना। येनचोन्मत्तवद्वाक्यं वदन्मध्येप्रधावसि
शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः। उप्यमानमिदं बीजं लोकः क्लिश्नातिचान्यथा
मयायं जनितः पुत्रो जनितोनेन चाप्यहम्। महादेवकृते सृष्टिः सृष्टा भार्या हिमालये
उमादत्ता तु रुद्रस्य कस्य सा तनया वद। मूढा यूयं न जानीथ वदतां भगवांस्तु वः
ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना। गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु
कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै। एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः
स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम। किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्
यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः। वदमानमिदं छद्म ब्रह्मरूपधरं हरम्
मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः। कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः
दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्। पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्