याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान्। यथेप्सितं वरं तेषां तदाब्रह्माप्ययच्छत
तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम्। सा तु यज्ञे स्थिता साध्वीदेवतानां समीपगा
दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदा। यज्ञवाटं कपर्दीतु भिक्षार्थं समुपागतः
बृहत्कपालं संगृह्य पञ्चमुण्डैरलंकृतः। ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः
कथं त्वमिह सम्प्राप्तो निन्दितो वेदवादिभिः। एवं प्रोत्सार्यमाणोपि निन्द्यमानः स तैर्द्विजैः
उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरः। अत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि
कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाः। उक्तः स तैःकपर्दी तु भुक्त्वा चान्नंततो व्रज
कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाः। एवमुक्त्वा निषण्णः सकपालं न्यस्य चाग्रतः
तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरः। मुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन्
उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाः। तूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः
वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसः। स्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः
कथं होमोत्र क्रियते कपाले सदसि स्थिते। कपालान्तान्यशौचानि पुरा प्राह प्रजापतिः
विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहं। उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम्
तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम्। एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो
पञ्चाशच्च शतं चैव सहस्रमयुतं तथा। एवं नान्तः कपालानां प्राप्यते द्विजसत्तमैः
नत्वा कपर्दिनं देवं शरणं समुपागताः। पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम्
तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम्। ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः
उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान्। पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत्
कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो मम। एवं कृते कृतं सर्वं मदीयं शासनं भवेत्
तथेत्यूचुर्द्विजाश्शम्भुं कुर्मो वै तव शासनम्। कपालपाणिराहेशो भगवन्तं पितामहम्
वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम्। सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो।५० 1.17.
"ब्रह्मोवाच। न ते वरं ग्रहीष्यामि दीक्षितोहं सदःस्थितः। सर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह
एवं वदन्तं वरदं क्रतौ तस्मिन्पितामहम्। तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत
ततो मन्वन्तरेतीते पुनरेव प्रभुः स्वयम्। ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शंभुना
चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः। तस्मिन्काले तदा देवो नगरस्यावलोकने
सम्भाषणे द्विजानां तु कौतुकेन सदो गतः। तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः
प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः। प्रहसन्ति च केप्येनं केचिन्निर्भर्त्सयंति च
अपरे पान्सुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः। लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः
प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्। ततोन्ये वटवस्तत्र जटास्वागृह्य चान्तिकम्
पृच्छन्ति व्रतचर्यां तां केनैषा ते निदर्शिता। अत्र वामास्त्रियः संति तासामर्थे त्वमागतः