केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिता। एवंविधानि वाक्यानि श्रुत्वोवाच स्वयंहरिः
इह चास्माभिरानीता पत्न्यर्थं विनियोजिता। ब्रह्मणालम्बिता बाला प्रलापं माकृथास्त्विह
पुण्या चैषा सुभाग्या च सर्वेषां कुलनन्दिनी। पुण्या चेन्न भवत्येषा कथमागच्छते सदः
एवं ज्ञात्वा महाभागन त्वं शोचितुमर्हसि। कन्यैषा ते महाभागा प्राप्ता देवं विरिंचनम्
योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाः। न लभन्ते प्रार्थयन्तस्तां गतिं दुहिता गता
*धर्मवन्तं सदाचारं भवन्तं धर्मवत्सलम्। मया ज्ञात्वा ततः कन्या दत्ताचैषा विरञ्चये
अनया-आभीरकन्याया तारितो गच्छ! *दिव्यान्लोकान्महोदयान्। युष्माकं च कुले चापि देवकार्यार्थसिद्धये
*अवतारं करिष्येहं सा क्रीडा तु भविष्यति। यदा नन्दप्रभृतयो ह्यवतारं धरातले
करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः। युष्माकं कन्यकाः सर्वा वसिष्यन्ति मया सह
तत्र दोषो न भविता न द्वेषो न च मत्सरः। करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः
न चास्याभविता दोषः कर्मणानेन कर्हिचित्। श्रुत्वा वाक्यं तदा विष्णोःप्रणिपत्य ययुस्तदा
एवमेष वरो देव यो दत्तो भविता हि मे। अवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः
भवतो दर्शनादेव भवामः स्वर्गवासिनः। शुभदा कन्यका चैषा तारिणी मे कुलैः सह
एवं भवतु देवेश वरदानं विभो तव। अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना
ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम्। त्रपान्विता दर्शने तु बन्धूनां वरवर्णिनी
कैरहं तु समाख्याता येनेमं देशमागताः। दृष्ट्वा तु तांस्ततः प्राह गायत्री आभीरकन्यका
वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम्। अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता
भर्ता लब्धो मया देवः सर्वस्याद्योजगत्पतिः। नाहंशोच्या भवत्यातु न पित्रा न च बान्धवैः
सखीगणश्च मे यातु भगिन्यो दारकैः सह। सर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः
गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा। ब्रह्मणा सहिता रेजे यज्ञवाटं गता सती
याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान्। यथेप्सितं वरं तेषां तदाब्रह्माप्ययच्छत
तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम्। सा तु यज्ञे स्थिता साध्वीदेवतानां समीपगा
दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदा। यज्ञवाटं कपर्दीतु भिक्षार्थं समुपागतः
बृहत्कपालं संगृह्य पञ्चमुण्डैरलंकृतः। ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः
कथं त्वमिह सम्प्राप्तो निन्दितो वेदवादिभिः। एवं प्रोत्सार्यमाणोपि निन्द्यमानः स तैर्द्विजैः
उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरः। अत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि
कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाः। उक्तः स तैःकपर्दी तु भुक्त्वा चान्नंततो व्रज
कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाः। एवमुक्त्वा निषण्णः सकपालं न्यस्य चाग्रतः
तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरः। मुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन्
उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाः। तूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः