प्रारब्धं च ततो होत्रं ब्राह्मणैर्वेदपारगैः। भृगुणा सहितैः कर्म वेदोक्तं तैः कृतं तदा। तथा युगसहस्रं तु स यज्ञः पुष्करेऽभवत्
"भीष्म-उवाच। तस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तम। कथं रुद्रःस्थितस्तत्र विष्णुश्चापि सुरोत्तमः
आभीर:पुत्री गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया। आभीरा: किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने
एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम्। आभीरैर्ब्राह्मणाचापि ममैतत्कौतुकं महत्
"पुलस्त्य उवाच। तस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप। कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप
रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतः। निन्द्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ
विष्णुना न कृतं किञ्चित्प्राधान्ये स यतःस्थितः। नाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः
गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोन्तिकम्। दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम्
हा पुत्रीति तदा माता पिता हा पुत्रिकेति च। स्वसेति बान्धवाः सर्वे सख्यः सख्येन हासखि
केन त्वमिह चानीता अलक्तांका तु सुन्दरी। शाटीं निवृत्तांकृत्वा तु केन युक्ता च कम्बली
केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिता। एवंविधानि वाक्यानि श्रुत्वोवाच स्वयंहरिः
इह चास्माभिरानीता पत्न्यर्थं विनियोजिता। ब्रह्मणालम्बिता बाला प्रलापं माकृथास्त्विह
पुण्या चैषा सुभाग्या च सर्वेषां कुलनन्दिनी। पुण्या चेन्न भवत्येषा कथमागच्छते सदः
एवं ज्ञात्वा महाभागन त्वं शोचितुमर्हसि। कन्यैषा ते महाभागा प्राप्ता देवं विरिंचनम्
योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाः। न लभन्ते प्रार्थयन्तस्तां गतिं दुहिता गता
*धर्मवन्तं सदाचारं भवन्तं धर्मवत्सलम्। मया ज्ञात्वा ततः कन्या दत्ताचैषा विरञ्चये
अनया-आभीरकन्याया तारितो गच्छ! *दिव्यान्लोकान्महोदयान्। युष्माकं च कुले चापि देवकार्यार्थसिद्धये
*अवतारं करिष्येहं सा क्रीडा तु भविष्यति। यदा नन्दप्रभृतयो ह्यवतारं धरातले
करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः। युष्माकं कन्यकाः सर्वा वसिष्यन्ति मया सह
तत्र दोषो न भविता न द्वेषो न च मत्सरः। करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः
न चास्याभविता दोषः कर्मणानेन कर्हिचित्। श्रुत्वा वाक्यं तदा विष्णोःप्रणिपत्य ययुस्तदा
एवमेष वरो देव यो दत्तो भविता हि मे। अवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः
भवतो दर्शनादेव भवामः स्वर्गवासिनः। शुभदा कन्यका चैषा तारिणी मे कुलैः सह
एवं भवतु देवेश वरदानं विभो तव। अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना
ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम्। त्रपान्विता दर्शने तु बन्धूनां वरवर्णिनी
कैरहं तु समाख्याता येनेमं देशमागताः। दृष्ट्वा तु तांस्ततः प्राह गायत्री आभीरकन्यका
वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम्। अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता
भर्ता लब्धो मया देवः सर्वस्याद्योजगत्पतिः। नाहंशोच्या भवत्यातु न पित्रा न च बान्धवैः
सखीगणश्च मे यातु भगिन्यो दारकैः सह। सर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः
गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा। ब्रह्मणा सहिता रेजे यज्ञवाटं गता सती