भवेयमपमानाच्च धिग्रूपा दुःखदायिनी। दृश्यते चक्षुषानेन यापि योषित्प्रसादतः
सापि धन्या न संदेहः किं पुनर्यां परिष्वजेत्। जगद्रूपमशेषं हि पृथक्संचारमाश्रितम्
लावण्यं तदिहैकस्थं दर्शितं विश्वयोनिना। अस्योपमा स्मरः साध्वी मन्मथस्य त्विषोपमा
तिरस्कृतस्तु शोकोयं पिता माता न कारणम्। यदि मां नैष आदत्ते स्वल्पं मयि न भाषते
अस्यानुस्मरणान्मृत्युः प्रभविष्यति शोकजः। अनागसि च पत्न्यां तु क्षिप्रं यातेयमीदृशी
कुचयोर्मणिशोभायै शुद्धाम्बुज समद्युतिः। मुखमस्य प्रपश्यंत्या मनो मे ध्यानमागतम्
अस्यांगस्पर्शसंयोगान्न चेत्त्वं बहु मन्यसे। स्पृशन्नटसि तर्हि न त्वं शरीरं वितथं परम्
अथवास्य न दोषोस्ति यदृच्छाचारको ह्यसि। मुषितः स्मर नूनं त्वं संरक्ष स्वां प्रियां रतिम्
त्वत्तोपि दृश्यते येन रूपेणायं स्मराधिकः। ममानेन मनोरत्न सर्वस्वं च हृतं दृढम्
शोभा या दृश्यते वक्त्रे सा कुतः शशलक्ष्मणि। नोपमा सकलं कस्य निष्कलंकेन शस्यते
समानभावतां याति पंकजं नास्य नेत्रयोः। कोपमा जलशंखेन प्राप्ता श्रवणशंङ्खयोः
विद्रुमोप्यधरस्यास्य लभते नोपमां ध्रुवम्। आत्मस्थममृतं ह्येष संस्रवंश्चेष्टते ध्रुवम्
यदि किंचिच्छुभं कर्म जन्मांतरशतैः कृतम्। तत्प्रसादात्पुनर्भर्ता भवत्वेष ममेप्सितः
एवं चिंतापराधीना यावत्सा गोपकन्यका। तावद्ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं वचः
देवी चैषा महाभागा गायत्री नामतः प्रभो। एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम्
तदेनामुद्वहस्वाद्य मया दत्तां जगत्प्रभो। गांधर्वेण विवाहेन विकल्पं मा कृथाश्चिरम्
अमुं गृहाण देवाद्य अस्याः पाणिमनाकुलम्। गांधेर्वेण विवाहेन उपयेमे पितामहः
तामवाप्य तदा ब्रह्मा जगादाद्ध्वर्युसत्तमम्। कृता पत्नी मया ह्येषा सदने मे निवेशय
मृगशृंगधरा बाला क्षौमवस्त्रावगुंठिता। पत्नीशालां तदा नीता ऋत्विग्भिर्वेदपारगैः
औदुंबेरण दंडेन प्रावृतो मृगचर्मणा। महाध्वरे तदा ब्रह्मा धाम्ना स्वेनैव शोभते
प्रारब्धं च ततो होत्रं ब्राह्मणैर्वेदपारगैः। भृगुणा सहितैः कर्म वेदोक्तं तैः कृतं तदा। तथा युगसहस्रं तु स यज्ञः पुष्करेऽभवत्
"भीष्म-उवाच। तस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तम। कथं रुद्रःस्थितस्तत्र विष्णुश्चापि सुरोत्तमः
आभीर:पुत्री गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया। आभीरा: किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने
एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम्। आभीरैर्ब्राह्मणाचापि ममैतत्कौतुकं महत्
"पुलस्त्य उवाच। तस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप। कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप
रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतः। निन्द्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ
विष्णुना न कृतं किञ्चित्प्राधान्ये स यतःस्थितः। नाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः
गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोन्तिकम्। दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम्
हा पुत्रीति तदा माता पिता हा पुत्रिकेति च। स्वसेति बान्धवाः सर्वे सख्यः सख्येन हासखि
केन त्वमिह चानीता अलक्तांका तु सुन्दरी। शाटीं निवृत्तांकृत्वा तु केन युक्ता च कम्बली