त्रैलोक्यांतर्गतं यद्यद्वस्तुतत्तत्प्रधानतः। समादाय विधात्रास्याः कृता रूपस्य संस्थितिः
इंद्र उवाच। कासि कस्य कुतश्च त्वमागता सुभ्रु कथ्यताम्। एकाकिनी किमर्थं च वीथीमध्येषु तिष्ठसि
यान्येतान्यंगसंस्थानि भूषणानि बिभर्षि च। नैतानि तव भूषायै त्वमेतेषां हि भूषणम्
न देवी न च गंधर्वी नासुरी न च पन्नगी। किन्नरी दृष्टपूर्वा वा यादृशी त्वं सुलोचने
उक्ता मयापि बहुशः कस्माद्दत्से हि नोत्तरम्। त्रपान्विता तु सा कन्या शक्रं प्रोवाच वेपती
गोपकन्या त्वहं वीर विक्रीणामीह गोरसम्। नवनीतमिदं शुद्धं दधि चेदं विमंडकम्
दध्ना चैवात्र तक्रेण रसेनापि परंतप। अर्थी येनासि तद्ब्रूहि प्रगृह्णीष्व यथेप्सितम्
एवमुक्तस्तदा शक्रो गृहीत्वा तां करे दृढम्। अनयत्तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः
नीयमाना तु सा तेन क्रोशंती पितृमातरौ। हा तात मातर्हा भ्रातर्नयत्येष नरो बलात्
यदि वास्ति मया कार्यं पितरं मे प्रयाचय। स दास्यति हि मां नूनं भवतः सत्यमुच्यते
का हि नाभिलषेत्कन्या भर्तांरं भक्तिवत्सलम्। नादेयमपि ते किंचित्पितुर्मे धर्मवत्सल
प्रसादये तं शिरसा मां स तुष्टः प्रदास्यति। पितुश्चित्तमविज्ञाय यद्यात्मानं ददामि ते
धर्मो हि विपुलो नश्येत्तेन त्वां न प्रसादये। भविष्यामि वशे तुभ्यं यदि तातः प्रदास्यति
इत्थमाभाष्यमाणस्तु तदा शक्रोऽनयच्च ताम्। ब्रह्मणः पुरतः स्थाप्य प्राहास्यार्थे मयाऽबले
आनीतासि विशालाक्षि मा शुचो वरवर्णिनि। गोपकन्यामसौ दृष्ट्वा गौरवर्णां महाद्युतिम्
कमलामेव तां मेने पुंडरीकनिभेक्षणाम्। तप्तकांचनसद्भित्ति सदृशा पीनवक्षसम्
मत्तेभहस्तवृत्तोरुं रक्तोत्तुंग नखत्विषं। तं दृष्ट्वाऽमन्यतात्मानं सापि मन्मनथचरम्
तत्प्राप्तिहेतु क धिया गतचित्तेव लक्ष्यते। प्रभुत्वमात्मनो दाने गोपकन्याप्यमन्यत
यद्येष मां सुरूपत्वादिच्छत्यादातुमाग्रहात्। नास्ति सीमंतिनी काचिन्मत्तो धन्यतरा भुवि
अनेनाहं समानीता यच्चक्षुर्गोचरं गता। अस्य त्यागे भवेन्मृत्युरत्यागे जीवितं सुखम्
भवेयमपमानाच्च धिग्रूपा दुःखदायिनी। दृश्यते चक्षुषानेन यापि योषित्प्रसादतः
सापि धन्या न संदेहः किं पुनर्यां परिष्वजेत्। जगद्रूपमशेषं हि पृथक्संचारमाश्रितम्
लावण्यं तदिहैकस्थं दर्शितं विश्वयोनिना। अस्योपमा स्मरः साध्वी मन्मथस्य त्विषोपमा
तिरस्कृतस्तु शोकोयं पिता माता न कारणम्। यदि मां नैष आदत्ते स्वल्पं मयि न भाषते
अस्यानुस्मरणान्मृत्युः प्रभविष्यति शोकजः। अनागसि च पत्न्यां तु क्षिप्रं यातेयमीदृशी
कुचयोर्मणिशोभायै शुद्धाम्बुज समद्युतिः। मुखमस्य प्रपश्यंत्या मनो मे ध्यानमागतम्
अस्यांगस्पर्शसंयोगान्न चेत्त्वं बहु मन्यसे। स्पृशन्नटसि तर्हि न त्वं शरीरं वितथं परम्
अथवास्य न दोषोस्ति यदृच्छाचारको ह्यसि। मुषितः स्मर नूनं त्वं संरक्ष स्वां प्रियां रतिम्
त्वत्तोपि दृश्यते येन रूपेणायं स्मराधिकः। ममानेन मनोरत्न सर्वस्वं च हृतं दृढम्
शोभा या दृश्यते वक्त्रे सा कुतः शशलक्ष्मणि। नोपमा सकलं कस्य निष्कलंकेन शस्यते