एवमुक्तस्तदा शक्रो गत्वा सर्वं धरातलं। स्त्रियो दृष्टाश्च यास्तेन सर्वाः परपरिग्रहाः
आभीरकन्या रूपाढ्या सुनासा चारुलोचना। न देवी न च गंधर्वी नासुरी न च पन्नगी
न चास्ति तादृशी कन्या यादृशी सा वरांगना। ददर्श तां सुचार्वंगीं श्रियं देवीमिवापराम्
संक्षिपन्तीं मनोवृत्ति विभवं रूपसंपदा। यद्यत्तु वस्तुसौंदर्याद्विशिष्टं लभ्यते क्वचित्
तत्तच्छरीरसंलग्नं तन्वंग्या ददृशे वरम्। तां दृष्ट्वा चिंतयामास यद्येषा कन्यका भवेत्
तन्मत्तः कृतपुण्योन्यो न देवो भुवि विद्यते। योषिद्रत्नमिदं सेयं सद्भाग्यायां पितामहः
सरागो यदि वा स्यात्तु सफलस्त्वेष मे श्रमः। नीलाभ्र कनकांभोज विद्रुमाभां ददर्श तां
त्विषं संबिभ्रतीमंगैः केशगंडे क्षणाधरैः। मन्मथाशोकवृक्षस्य प्रोद्भिन्नां कलिकामिव
प्रदग्धहृच्छयेनैव नेत्रवह्निशिखोत्करैः। धात्रा कथं हि सा सृष्टा प्रतिरूपमपश्यता
कल्पिता चेत्स्वयं बुध्या नैपुण्यस्य गतिः परा। उत्तुंगाग्राविमौ सृष्टौ यन्मे संपश्यतः सुखं
पयोधरौ नातिचित्रं कस्य संजायते हृदि। रागोपहतदेहोयमधरो यद्यपि स्फुटम्
तथापि सेवमानस्य निर्वाणं संप्रयच्छति। वहद्भिरपि कौटिल्यमलकैः सुखमर्प्यते
दोषोपि गुणवद्भाति भूरिसौंदर्यमाश्रितः। नेत्रयोर्भूषितावंता वाकर्णाभ्याशमागतौ
कारणाद्भावचैतन्यं प्रवदंति हि तद्विदः। कर्णयोर्भूषणे नेत्रे नेत्रयोः श्रवणाविमौ
कुंडलांजनयोरत्र नावकाशोस्ति कश्चन। न तद्युक्तं कटाक्षाणां यद्द्विधाकरणं हृदि
तवसंबंधिनोयेऽत्र कथं ते दुःखभागिनः। सर्वसुंदरतामेति विकारः प्राकृतैर्गुणैः
वृद्धे क्षणशतानां तु दृष्टमेषा मया धनम्। धात्रा कौशल्यसीमेयं रूपोत्पत्तौ सुदर्शिता
करोत्येषा मनो नॄणां सस्नेहं कृतिविभ्रमैः। एवं विमृशतस्तस्य तद्रूपापहृतत्विषः
निरंतरोद्गतैश्छन्नमभवत्पुलकैर्वपुः। तां वीक्ष्य नवहेमाभां पद्मपत्रायतेक्षणाम्
देवानामथ यक्षाणां गंधर्वोरगरक्षसाम्। नाना दृष्टा मया नार्यो नेदृशी रूपसंपदा१५० 1.16.
त्रैलोक्यांतर्गतं यद्यद्वस्तुतत्तत्प्रधानतः। समादाय विधात्रास्याः कृता रूपस्य संस्थितिः
इंद्र उवाच। कासि कस्य कुतश्च त्वमागता सुभ्रु कथ्यताम्। एकाकिनी किमर्थं च वीथीमध्येषु तिष्ठसि
यान्येतान्यंगसंस्थानि भूषणानि बिभर्षि च। नैतानि तव भूषायै त्वमेतेषां हि भूषणम्
न देवी न च गंधर्वी नासुरी न च पन्नगी। किन्नरी दृष्टपूर्वा वा यादृशी त्वं सुलोचने
उक्ता मयापि बहुशः कस्माद्दत्से हि नोत्तरम्। त्रपान्विता तु सा कन्या शक्रं प्रोवाच वेपती
गोपकन्या त्वहं वीर विक्रीणामीह गोरसम्। नवनीतमिदं शुद्धं दधि चेदं विमंडकम्
दध्ना चैवात्र तक्रेण रसेनापि परंतप। अर्थी येनासि तद्ब्रूहि प्रगृह्णीष्व यथेप्सितम्
एवमुक्तस्तदा शक्रो गृहीत्वा तां करे दृढम्। अनयत्तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः
नीयमाना तु सा तेन क्रोशंती पितृमातरौ। हा तात मातर्हा भ्रातर्नयत्येष नरो बलात्
यदि वास्ति मया कार्यं पितरं मे प्रयाचय। स दास्यति हि मां नूनं भवतः सत्यमुच्यते