ब्रह्मणश्च समीपे तु कृता ऋत्विग्विकल्पना। वस्त्रैराभरणैर्युक्ताः कृता वैश्रवणेन ते१०० 1.16.
अंगुलीयैः सकटकैर्मकुटैर्भूषिता द्विजाः। चत्वारो द्वौ दशान्ये च त षोडशर्त्विजः
ब्रह्मणा पूजिताः सर्वे प्रणिपातपुरःसरम्। अनुग्राह्यो भवद्भिस्तु सर्वैरस्मिन्क्रताविह
पत्नी ममैषा सावित्री यूयं मे शरणंद्विजाः। विश्वकर्माणमाहूय ब्रह्मणः शीर्षमुंडनं
यज्ञे तु विहितं तस्य कारितं द्विजसत्तमैः। आतसेयानि वस्त्राणि दंपत्यर्थे तथा द्विजैः
ब्रह्मघोषेण ते विप्रा नादयानास्त्रिविष्टपम्। पालयंतो जगच्चेदं क्षत्रियाः सायुधाः स्थिताः
भक्ष्यप्रकारान्विविधिन्वैश्यास्तत्र प्रचक्रिरे। रसबाहुल्ययुक्तं च भक्ष्यं भोज्यं कृतं ततः
अश्रुतं प्रागदृष्टं च दृष्ट्वा तुष्टः प्रजापतिः। प्राग्वाटेति ददौ नाम वैश्यानां सृष्टिकृद्विभुः
द्विजानां पादशुश्रूषा शूद्रैः कार्या सदा त्विह। पादप्रक्षालनं भोज्यमुच्छिष्टस्य प्रमार्जनं
तेपि चक्रुस्तदा तत्र तेभ्यो भूयः पितामहः। शूश्रूषार्थं मया यूयं तुरीये तु पदे कृताः
द्विजानां क्षत्रबन्धूनां बन्धूनां च भवद्विधैः। त्रिभ्यश्शुश्रूषणा कार्येत्युक्त्वा ब्रह्मा तथाऽकरोत्
द्वाराध्यक्षं तथा शक्रं वरुणं रसदायकम्। वित्तप्रदं वैश्रवणं पवनं गंधदायिनम्
उद्योतकारिणं सूर्यं प्रभुत्वे माधवः स्थितः। सोमः सोमप्रदस्तेषां वामपक्ष पथाश्रितः
सुसत्कृता च पत्नी सा सवित्री च वरांगना। अध्वर्युणा समाहूता एहि देवि त्वरान्विता
उत्थिताश्चाग्नयः सर्वे दीक्षाकाल उपागतः। व्यग्रा सा कार्यकरणे स्त्रीस्वभावेन नागता
इहवै न कृतं किंचिद्द्वारे वै मंडनं मया। भित्त्यां वैचित्रकर्माणि स्वस्तिकं प्रांगणेन तु
प्रक्षालनं च भांडानां न कृतं किमपि त्विह। लक्ष्मीरद्यापि नायाता पत्नीनारायणस्य या
अग्नेः पत्नी तथा स्वाहा धूम्रोर्णा तु यमस्य तु। वारुणी वै तथा गौरी वायोर्वै सुप्रभा तथा
ऋद्धिर्वैश्रवणी भार्या शम्भोर्गौरी जगत्प्रिया। मेधा श्रद्धा विभूतिश्च अनसूया धृतिः क्षमा
गंगा सरस्वती चैव नाद्या याताश्च कन्यकाः। इंद्राणी चंद्रपत्नी तु रोहिणी शशिनः प्रियाः
अरुंधती वसिष्ठस्य सप्तर्षीणां च याः स्त्रियः। अनसूयात्रिपत्नी च तथान्याः प्रमदा इह
वध्वो दुहितरश्चैव सख्यो भगिनिकास्तथा। नाद्यागतास्तु ताः सर्वा अहं तावत्स्थिता चिरं
नाहमेकाकिनी यास्ये यावन्नायांति ता स्त्रियः। ब्रूहि गत्वा विरंचिं तु तिष्ठ तावन्मुहूर्तकम्
सर्वाभिः सहिता चाहमागच्छामि त्वरान्विता। सर्वैः परिवृतः शोभां देवैः सह महामते
भवान्प्राप्नोति परमां तथाहं तु न संशयः। वदमानां तथाध्वर्युस्त्यक्त्वा ब्रह्माणमागतः
सावित्री व्याकुला देव प्रसक्ता गृहकर्माणि। सख्यो नाभ्यागता यावत्तावन्नागमनं मम
एवमुक्तोस्मि वै देव कालश्चाप्यतिवर्त्तते। यत्तेद्य रुचितं तावत्तत्कुरुष्व पितामह
एवमुक्तस्तदा ब्रह्मा किंचित्कोपसमन्वितः। पत्नीं चान्यां मदर्थे वै शीघ्रं शक्र इहानय
यथा प्रवर्तते यज्ञः कालहीनो न जायते। तथा शीघ्रं विधित्स्व त्वं नारीं कांचिदुपानय
यावद्यज्ञसमाप्तिर्मे वर्णे त्वां मा कृथा मनः। भूयोपि तां प्रमोक्ष्यामि समाप्तौ तु क्रतोरिह