वानस्पत्याश्चौषधयो यच्चेहेद्यच्च नेहति। ब्रह्मादेशान्मारुतेन आनीताः सर्वतो दिशः
यज्ञपर्वतमासाद्य दक्षिणामभितोदिशम्। सुरा उत्तरतः सर्वे मर्यादापर्वते स्थिताः
गंधर्वाप्सरसश्चैव मुनयो वेदपारगाः। पश्चिमां दिशमास्थाय स्थितास्तत्र महाक्रतौ
सर्वे देवनिकायाश्च दानवाश्चासुरागणाः। अमर्षं पृष्ठतः कृत्वा सुप्रीतास्ते परस्परम्
ऋषीन्पर्यचरन्सर्वे शुश्रूषन्ब्राह्मणांस्तथा। ऋषयो ब्रह्मर्षयश्च द्विजा देवर्षयस्तथा
राजर्षयो मुख्यतमास्समायाताः समंततः। कतमश्च सुरोप्यत्र क्रतौ याज्यो भविष्यति
पशवः पक्षिणश्चैव तत्र याता दिदृक्षवः। ब्राह्मणा भोक्तुकामाश्च सर्वे वर्णानुपूर्वशः
स्वयं च वरुणो रत्नं दक्षश्चान्नं स्वयं ददौ। आगत्यवरुणोलोकात्पक्वंचान्नंस्वतोपचत्
वायुर्भक्षविकारांश्च रसपाची दिवाकरः। अन्नपाचनकृत्सोमो मतिदाता बृहस्पतिः
धनदानं धनाध्यक्षो वस्त्राणि विविधानि च। सरस्वती नदाध्यक्षो गंगादेवी सनर्मदा
याश्चान्याः सरितः पुण्याः कूपाश्चैव जलाशयाः। पल्वलानि तटाकानि कुंडानि विविधानि च
प्रस्रवाणि च मुख्यानि देवखातान्यनेकशः। जलाशयानि सर्वाणि समुद्राः सप्तसंख्यकाः
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्। सप्तलोकाः सपातालाः सप्तद्वीपाः सपत्तनाः
वृक्षा वल्ल्यः सतृणानि शाकानि च फलानि च। पृथिवीवायुराकाशमापोज्योतिश्च पंचमम्
सविग्रहाणि भूतानि धर्मशास्त्राणि यानि च। वेदभाष्याणि सूत्राणि ब्रह्मणा निर्मितं च यत्
अमूर्तं मूर्तमत्यन्तं मूर्तदृश्यं तथाखिलम्। एवं कृते तथास्मिंस्तु यज्ञे पैतामहे तदा
देवानां संनिधौ तत्र ऋषिभिश्च समागमे। ब्रह्मणो दक्षिणे पार्श्वे स्थितो विष्णुः सनातनः
वामपार्श्वे स्थितो रुद्रः पिनाकी वरदः प्रभुः। ऋत्विजां चापि वरणं कृतं तत्र महात्मना
भृगुर्होतावृतस्तत्र पुलस्त्योध्वर्य्युसत्तमः। तत्रोद्गाता मरीचिस्तु ब्रह्मा वै नारदः कृतः
सनत्कुमारादयो ये सदस्यास्तत्र ते भवन्। प्रजापतयो दक्षाद्या वर्णा ब्राह्मणपूर्वकाः
ब्रह्मणश्च समीपे तु कृता ऋत्विग्विकल्पना। वस्त्रैराभरणैर्युक्ताः कृता वैश्रवणेन ते१०० 1.16.
अंगुलीयैः सकटकैर्मकुटैर्भूषिता द्विजाः। चत्वारो द्वौ दशान्ये च त षोडशर्त्विजः
ब्रह्मणा पूजिताः सर्वे प्रणिपातपुरःसरम्। अनुग्राह्यो भवद्भिस्तु सर्वैरस्मिन्क्रताविह
पत्नी ममैषा सावित्री यूयं मे शरणंद्विजाः। विश्वकर्माणमाहूय ब्रह्मणः शीर्षमुंडनं
यज्ञे तु विहितं तस्य कारितं द्विजसत्तमैः। आतसेयानि वस्त्राणि दंपत्यर्थे तथा द्विजैः
ब्रह्मघोषेण ते विप्रा नादयानास्त्रिविष्टपम्। पालयंतो जगच्चेदं क्षत्रियाः सायुधाः स्थिताः
भक्ष्यप्रकारान्विविधिन्वैश्यास्तत्र प्रचक्रिरे। रसबाहुल्ययुक्तं च भक्ष्यं भोज्यं कृतं ततः
अश्रुतं प्रागदृष्टं च दृष्ट्वा तुष्टः प्रजापतिः। प्राग्वाटेति ददौ नाम वैश्यानां सृष्टिकृद्विभुः
द्विजानां पादशुश्रूषा शूद्रैः कार्या सदा त्विह। पादप्रक्षालनं भोज्यमुच्छिष्टस्य प्रमार्जनं
तेपि चक्रुस्तदा तत्र तेभ्यो भूयः पितामहः। शूश्रूषार्थं मया यूयं तुरीये तु पदे कृताः