ब्रह्माथ कपिलश्चैव परमेष्ठी तथैव च। देवाः सप्तर्षयश्चैव त्र्यंबकश्च महायशाः५० 1.16.
सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान्प्रजापतिः। पुराणदेवोथ तथा प्रचक्रे प्रदीप्तवैश्वानरतुल्यतेजाः
पुरा कमलजातस्य स्वपतस्तस्य कोटरे। पुष्करे यत्र संभूता देवा ऋषिगणास्तथा
एष पौष्करको नाम प्रादुर्भावो महात्मनः। पुराणं कथ्यते यत्र वेदस्मृतिसुसंहितं
वराहस्तु श्रुतिमुखः प्रादुर्भूतो विरिंचिनः। सहायार्थं सुरश्रेष्ठो वाराहं रूपमास्थितः
विस्तीर्णं पुष्करे कृत्वा तीर्थं कोकामुखं हि तत्। वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः। अहोरात्रेक्षणो दिव्यो वेदांगः श्रुतिभूषणः
आज्यनासः स्रुवतुंडः सामघोषस्वनो महान्। सत्यधर्ममयः श्रीमान्कर्मविक्रमसत्कृतः
प्रायश्चित्तनखो धीरः पशुजानुर्मखाकृतिः। उद्गात्रांत्रो होमलिंगो फलबीजमहौषधिः
वाय्वंतरात्मा मंत्रास्थिरापस्फिक्सोमशोणितः। वेदस्कंधो हविर्गंधो हव्यकव्यातिवेगवान्
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरर्चितः। दक्षिणाहृदयो योगी महासत्रमयो महान्
उपाकर्मेष्टिरुचिरः प्रवर्ग्यावर्तभूषणः। छायापत्नीसहायो वै मणिशृंगमिवोच्छ्रितः
सर्वलोकहितात्मा यो दंष्ट्रयाभ्युज्जहारगाम्। ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः
ततो जगाम निर्वाणं पृथिवीधारणाद्धरिः। एवमादिवराहेण धृत्वा ब्रह्महितार्थिना
उद्धृता पुष्करे पृथ्वी सागरांबुगता पुरा। वृतः शमदमाभ्यां यो दिव्ये कोकामुखे स्थितः
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह। रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः
दिग्भिर्विदिग्भिः पृथिवी नदीभिः सह सागरैः। चराचरगुरुः श्रीमान्ब्रह्मा ब्रह्मविदांवरः
उवाच वचनं कोकामुखं तीर्थं त्वया विभो। पालनीयं सदा गोप्यं रक्षा कार्या मखे त्विह
एवं करिष्ये भगवंस्तदा ब्रह्माणमुक्तवान्। उवाच तं पुनर्ब्रह्मा विष्णुं देवं पुरः स्थितम्
त्वं हि मे परमो देवस्त्वं हि मे परमो गुरुः। त्वं हि मे परमं धाम शक्रादीनां सुरोत्तम
उत्फुल्लामलपद्माक्ष शत्रुपक्ष क्षयावह। यथा यज्ञेन मे ध्वंसो दानवैश्च विधीयते
तथा त्वया विधातव्यं प्रणतस्य नमोस्तु ते। विष्णुरुवाच। भयं त्यजस्व देवेश क्षयं नेष्यामि दानवान्
ये चान्ते विघ्नकर्तारो यातुधानास्तथाऽसुराः। घातयिष्याम्यहं सर्वान्स्वस्ति तिष्ठ पितामह
एवमुक्त्वा स्थितस्तत्र साहाय्येन कृतक्षणः। प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश
सुप्रभाणि च ज्योतींषि चंद्रं चक्रुः प्रदक्षिणम्। न विग्रहं ग्रहाश्चक्रुः प्रसेदुश्चापि सिंधवः
नीरजस्का भूमिरासीत्सकला ह्लाददास्त्वपः। जग्मुः स्वमार्गं सरितो नापि चुक्षुभुरर्णवाः
आसन्शुभानींद्रियाणि नराणामंतरात्मनाम्। महर्षयो वीतशोका वेदानुच्चैरवाचयन्
यज्ञे तस्मिन्हविः पाके शिवा आसंश्च पावकाः। प्रवृत्तधर्मसद्वृत्ता लोका मुदितमानसाः
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः। ततो देवाः समायाता दानवा राक्षसैस्सह
भूतप्रेतपिशाचाश्च सर्वे तत्रागताः क्रमात्। गंधर्वाप्सरसश्चैव नागा विद्याधरागणाः