किं कृतं तत्र युष्माभिः कोपो वाथ क्षमापि वा। यत्कृतं तत्र यद्दृष्टं यत्तवोक्तं मया त्विह
विस्तरेणेह सर्वाणि कर्माणि परमेष्ठिनः। श्रोतुमिच्छाम्यशेषेण विधेर्यज्ञविधिं परं
कर्मणामानुपूर्व्यं च प्रारंभो होत्रमेव च। होतुर्भक्षो यथाऽचापि प्रथमा कस्य कारिता
कथं च भगवान्विष्णुः साहाय्यं केन कीदृशं। अमरैर्वा कृतं यच्च तद्भवान्वक्तुमर्हति
देवलोकं परित्यज्य कथं मर्त्यमुपागतः। गार्हपत्यं च विधिना अन्वाहार्यं च दक्षिणम्
अग्निमाहवनीयं च वेदीं चैव तथा स्रुवम्। प्रोक्षणीयं स्रुचं चैव आवभृथ्यं तथैव च
अग्नींस्त्रींश्च यथा चक्रे हव्यभागवहान्हि वै। हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि
भागार्थं यज्ञविधिना ये यज्ञा यज्ञकर्मणि। यूपान्समित्कुशं सोमं पवित्रं परिधीनपि
यज्ञियानि च द्रव्याणि यथा ब्रह्मा चकार ह। विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च। मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं पुरा। आयुः क्षेत्राण्यपचयं लक्षणं रूपसौष्ठवम्
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः। त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः
सृष्टा लोकाः पराः स्रष्ट्रा ये चान्येनल्पचेतसा। या गतिर्धर्मयुक्तानां या गतिः पापकर्मणां
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता। चतुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः। यः परं परतः प्राह परं यः परमात्मवान्
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम्। वेद्यो यो वेदविदुषां यः प्रभुः प्रभवात्मनाम्
असुभूतश्च भूतानामग्निभूतोग्निवर्चसाम्। मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम्
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि। इत्येतत्सर्वमखिलान्सृजन्लोकपितामहः
यज्ञाद्गतिं कामन्वैच्छत्कथं यज्ञे मतिः कृता। एष मे संशयो ब्रह्मन्नेष मे संशयः परः
आश्चर्यः परमो ब्रह्मा देवैर्दैत्यैश्च पठ्यते। कर्मणाश्चर्यभूतोपि तत्त्वतः स इहोच्यते
पुलस्त्य उवाच। प्रश्नभारो महानेष त्वयोक्तो ब्रह्मणश्च यः। यथाशक्ति तु वक्ष्यामि श्रूयतां तत्परं यशः
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम्। सहस्रश्रवणं चैव सहस्रकरमव्ययम्
सहस्रजिह्वं साहस्रं सहस्रपरमं प्रभुं। सहस्रदं सहस्रादिं सहस्रभुजमव्ययम्
हवनं सवनं चैव हव्यं होतारमेव च। पात्राणि च पवित्राणि वेदीं दीक्षां चरुं स्रुवम्
स्रुक्सोममवभृच्चैव प्रोक्षणीं दक्षिणा धनम्। अद्ध्वर्युं सामगं विप्रं सदस्यान्सदनं सदः
यूपं समित्कुशं दर्वी चमसोलूखलानि च। प्राग्वंशं यज्ञभूमिं च होतारं बन्धनं च यत्
ह्रस्वान्यतिप्रमाणानि प्रमाणस्थावराणि च। प्रायश्चित्तानि वाजाश्च स्थंडिलानि कुशास्तथा
मंत्रं यज्ञं च हवनं वह्निभागं भवं च यं। अग्रेभुजं होमभुजं शुभार्चिषमुदायुधं
आहुर्वेदविदो विप्रा यो यज्ञः शाश्वतः प्रभुः। यां पृच्छसि महाराज पुण्यां दिव्यामिमां कथां
यदर्थं भगवान्ब्रह्मा भूमौ यज्ञमथाकरोत्। हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च