तस्य तद्वचनं श्रुत्वा कोपमानो जनार्दनः । हनिष्ये दानवं दुष्टं देवतानां भयंकरम्
त्रिदशैः सहितो देवो गतश्चंद्रावतीं पुरीम् । दृष्टो देवैस्तु दैत्येंद्रो गर्जमानः पुनः पुनः
तेन सर्वे जिता देव गताश्चैव दिशो दश । हरिं निरीक्ष्य प्रोवाच तिष्ठतिष्ठेति दानवः
भगवानब्रवीत्तं च क्रोधसंरक्तलोचनः । श्रीभगवानुवाच- रे दानव दुराचार मम बाहुं निरीक्षय
ततस्ते सम्मुखाः सर्वे विष्णुना दुष्टदानवाः । हता बाणैः पुनर्दिव्यैर्जाताश्च भयविह्वलाः
चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पांडव । तेनच्छिन्नास्तु शतशो बहवो निधनं गताः
एकोपि दानवस्तत्र युध्यमानो मुहुर्मुहुः । नष्टाः सर्वे सुरास्तेन निर्जितो मधुसूदनः
निर्जितं तेन दैत्येन बाहुयुद्धमजायत । बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम्
विष्णुश्चिंतां प्रपन्नश्च नष्टाः सर्वाश्च देवताः । विष्णुश्च निर्जितस्तेन गतो बदरिकाश्रमम्
गुहा सिंहावती नाम तत्र सुप्तो जनार्दनः । योजनद्वादशवती एकद्वारा च पांडव
तस्यां विष्टः प्रसुप्तश्च दानवो हंतुमुद्यतः । महायुद्धेन तेनैव श्रांतोऽसौ योगमायया
दानवः पृष्ठतो लग्नो प्रविष्टः स तदा गुहाम् । प्रसुप्तं तत्र मां दृष्ट्वा दानवो हर्षमागतः
इत्थं मां निर्जितं मत्वा प्रविष्टं शंकया हरिम् । निःसंदेहं हनिष्यामि दानवानां भयंकरम्
निर्गता कन्यका तत्र विष्णुदेहाद्युधिष्ठिर । रूपवती सुसौभाग्या दिव्यप्रहरणायुधा
तस्य तेजोंऽशसंभूता महाबलपराक्रमा । दृष्टा सा दानवेंद्रेण मुरनाम्ना धनंजय
युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितम् । कन्यका युध्यते तत्र सर्वयुद्धविशारदा
हुंकारैर्भस्मसाज्जातो मुर नामा महासुरः । निहते दानवे तस्मिंस्तत्र देवस्त्वबुध्यत
पतितं दानवं दृष्ट्वा ततो विस्मयमागतः । केनायं च हतो रौद्रो ह्यत्युग्रो मम शात्रवः
अत्युग्रं च कृतं कर्म मम कारुण्यतः कृतम् । कन्योवाच- तेन देवाश्च गंधर्वा सयक्षोरगराक्षसाः
इंद्राद्याः सकला जित्वा स्वर्गाच्चैव निराकृताः । हरिः सुप्तो मया दृष्टो मुरः पृष्ठे समागतः
संहरिष्यति त्रैलोक्यं सुप्ते चैव जर्नादने । तस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत्
अहं च निर्जितो येन कथं सोऽपि त्वया जितः । एकादश्युवाच- त्वत्प्रसादाच्च भो स्वामिन्महादैत्यो मया हतः
श्रीभगवानुवाच- आनंदं त्रिषु लोकेषु मुनयो देवता गताः । ब्रूहि त्वं च मया भद्रे यत्ते मनसि रोचते । ददामि च न संदेहो यत्सुरैरपि दुर्ल्लभम्
एकादश्युवाच- यदि तुष्टोऽसि मे देव सत्यमुक्तं जनार्दन । वरमेकं तु वांच्छामि हृदये च जगत्पते
प्रार्थयामि च देवेश ईप्सितं च मया प्रभो । यदि सत्यं जगन्नाथ तिस्रो वाचो ददासि मे
श्रीभगवानुवाच- सत्यं सत्यं मया प्रोक्तं अवश्यं तव सुव्रते । तिस्रो वाचो मया दत्ता न चावाक्यं भवेदिह
एकादश्युवाच- त्रिभुवनेषु च देवेश चतुर्युगेषु सांप्रतम् । त्रिषु लोकेषु सर्वत्र तादृशं कुरु मे प्रभो
सर्वतीर्थप्रधानं हि सर्वविघ्नविनाशिनी । सर्वसिद्धिकरी देवी त्वत्प्रसादाद्भवाम्यहम्
मामुपोष्यंति ये भक्त्या तव भक्त्या जनार्दन । सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो 6.38.
उपवासं च नक्तं च एकभक्तं करोति च । तस्य वित्तं च धर्मं च मोक्षं वै देहि माधव