दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह। तीक्ष्णे तनुं यः प्रथमं जुहोति सोनंतमाप्नोत्यभयं प्रजाभ्यः
उत्तानमास्येन हविर्जुहोति अनंतमाप्नोत्यभितः प्रतिष्ठाम्। तस्यांगसंगादभिनिष्कृतं च वैश्वानरं सर्वमिदं प्रपेदे
प्रादेशमात्रं हृदभिस्रुतं यत्तस्मिन्प्राणेनात्मयाजी जुहोति। तस्याग्निहोत्रे हुतमात्मसंस्थं सर्वेषु लोकेषु सदैव तेषु
देवं विधातुं त्रिवृतं सुवर्णं ये वै विदुस्तं परमार्थभूतम्। ते सर्वभूतेषु महीयमाना देवाः समर्था अमृतं व्रजंति
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च। सर्वं शरीरात्मनि यः प्रवेद तस्याभिसर्वे प्रचरंति नित्यम्
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं तं च समंडलांते। प्रदक्षिणं दक्षिणमंतरिक्षे यो वेदनाप्यात्मनि दीप्तरश्मिः
आवर्तमानं च विवर्तमानं षण्नेमि यद्द्वादशारं त्रिपर्व। यस्येदमास्यं परिपाति विश्वं तत्कालचक्रं निहितं गुहायाम्
यतः प्रसादं जगतः शरीरं सर्वांश्च लोकानधिगच्छतीह। तस्मिन्हि संतर्पयतीह देवान्स वै विमुक्तो भवतीह नित्यम्
तेजोमयो नित्यमतः पुराणो लोके भवत्यर्थभयादुपैति। भूतानि यस्मान्नभयं व्रजंति भूतेभ्यो यो नो द्विजते कदाचित्
अगर्हणीयो न च गर्हतेन्यान्स वै विप्रः प्रवरं स्वात्मनीक्षेत्। विनीतमोहोप्यपनीतकल्मषो न चेह नामुत्र च योर्थमृच्छति
अरोषमोहः समलोष्टकांचनः प्रहीणशोको गतसंधिविग्रहः। अपेतनिंदास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेव भिक्षुः
भीष्म उवाच। यदेतत्कथितं ब्रह्मंस्तीर्थमाहात्म्यमुत्तमम्। कमलस्याभिपातेन तीर्थं जातं धरातले
तत्रस्थेन भगवता विष्णुना शंकरेण च। यत्कृतं मुनिशार्दूल तत्सर्वं परिकीर्त्तय
कथं यज्ञो हि देवेन विभुना तत्र कारितः। के सदस्या ऋत्विजश्च ब्राह्मणाः के समागताः
के भागास्तस्य यज्ञस्य किं द्रव्यं का चदक्षिणा। का वेदी किं प्रमाणं च कृतं तत्र विरंचिना
यो याज्यः सर्वदेवानां वेदैः सर्वत्र पठ्यते। कं च काममभिध्यायन्वेधा यज्ञं चकार ह
यथासौ देवदेवेशो ह्यजरश्चामरश्च ह। तथा चैवाक्षयः स्वर्गस्तस्य देवस्य दृश्यते
अन्येषां चैव देवानां दत्तः स्वर्गो महात्मना। अग्निहोत्रार्थमुत्पन्ना वेदा ओषधयस्तथा
ये चान्ये पशवो भूमौ सर्वे ते यज्ञकारणात्। सृष्टा भगवतानेन इत्येषा वैदिकी श्रुतिः
तदत्र कौतुकं मह्यं श्रुत्वेदं तव भाषितम्। यं काममधिकृत्यैकं यत्फलं यां च भावनां
कृतश्चानेन वै यज्ञः सर्वं शंसितुमर्हसि। शतरूपा च या नारी सावित्री सा त्विहोच्यते
भार्या सा ब्रह्मणः प्रोक्ताः ऋषीणां जननी च सा। पुलस्त्याद्यान्मुनीन्सप्त दक्षाद्यांस्तु प्रजापतीन्
स्वायंभुवादींश्च मनून्सावित्री समजीजनत्। धर्मपत्नीं तु तां ब्रह्मा पुत्रिणीं ब्रह्मणः प्रियः
पतिव्रतां महाभागां सुव्रतां चारुहासिनीं। कथं सतीं परित्यज्य भार्यामन्यामविंदत
किं नाम्नी किं समाचारा कस्य सा तनया विभोः। क्व सा दृष्टा हि देवेन केन चास्य प्रदर्शिता
किं रूपा सा तु देवेशी दृष्टा चित्तविमोहिनी। यां तु दृष्ट्वा स देवेशः कामस्य वशमेयिवान्
वर्णतो रूपतश्चैव सावित्र्यास्त्वधिका मुने। या मोहितवती देवं सर्वलोकेश्वरं विभुम्
यथा गृहीतवान्देवो नारीं तां लोकसुंदरीं। यथा प्रवृत्तो यज्ञोसौ तथा सर्वं प्रकीर्तय
तां दृष्ट्वा ब्रह्मणः पार्श्वे सावित्री किं चकार ह। सावित्र्यां तु तदा ब्रह्मा कां तु वृत्तिमवर्त्तत
सन्निधौ कानि वाक्यानि सावित्री ब्रह्मणा तदा। उक्ताप्युक्तवती भूयः सर्वं शंसितुमर्हसि