प्राप्नुयाद्येन वा यच्च तत्प्राश्नीयादकुत्सयन्। केशलोमनखान्न्यस्येद्वानप्रस्थाश्रमे रतः
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः। अभयं सर्वभूतेभ्यो यो दत्वा प्रव्रजेद्द्विजः
लोकास्तेजोमयास्तस्य प्रेत्य चानंत्यमश्नुते। सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र चरन्तुमीहते
अरोषमोहो गतसंधिविग्रहः स चेदुदासीनवदात्मचिंतया। यमेषु चैवान्यगतेषु न व्यथः स्वशास्त्रशून्यो हृदिनात्मविभ्रमः
भवेद्यथेष्टागतिरात्मयाजिनी निस्संशये धर्मपरे जितेन्द्रिये। अतःपरं श्रेष्ठमतीवसद्गुणैरधिष्ठितं त्रीनतिवर्त्य चाश्रमान्
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्। प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्
यत्कार्यं परमात्मार्थं तत्त्वमेकमनाः शृणु। काषायं धारयित्वा तु श्रेणीस्थानेषु च त्रिषु
यो व्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्। तद्भावनेन संन्यस्य वर्तनं श्रूयतां तथा
एक एव चरेद्धर्मं सिध्यर्थमसहायवान्। एकश्चरति यः पश्यन्न जहाति न हीयते
अनग्निरनिकेतस्तु ग्रामं भिक्षार्थमाश्रयेत्। अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः
लघ्वाशी नियताहारः सकृदन्नं निषेवयेत्। कपालं वृक्षमूलानि कुचेलमसहायता
उपेक्षा सर्वभूतानामेतावद्भिक्षु लक्षणम्। यस्मिन्वाचः प्रविशंति कूपे प्राप्ता मृता इव
न वक्तारं पुनर्यांति स कैवल्याश्रमे वसेत्। नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्
ब्राह्मणानां विशेषेण नैतद्भूयात्कथंचन। यद्ब्राह्मणस्यानुकूलं तदेव सततं वदेत्
तूष्णीमासीत निंदायां कुर्वन्भैषज्यमात्मनः। येन पूर्णमिवाकाशं भवत्येकेन सर्वदा
शून्यं येन समाकीर्णं तं देवा ब्राह्मणं विदुः
येनकेन चिदाछिन्नो येनकेन चिदाशितः। यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः
अहेरिव जनाद्भीतः सुहृदो नरकादिव। कृपणादिव नारीभ्यस्तं देवा ब्राह्मणं विदुः
न हृष्येत विषीदेत मानितो मानितस्तथा। सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः
नाभिनंदेत मरणं नाभिनंदेत जीवितम्। कालमेव निरीक्षेत निर्देशं कृषको यथा
अनभ्याहतचित्तश्च दांतश्चाहतधीस्तथा। विमुक्तः सर्वपापेभ्यो नरो गच्छेत्ततो दिवम्
अभयं सर्वभूतेभ्यो भूतानामभयं यतः। तस्य देहविमुक्तस्य भयं नास्ति कुतश्चन
यथा नागपदेऽन्यानि पदानि पदगामिनाम्। सर्वाण्येवावलीयंते तथा ज्ञानानि चेतसि
एवं सर्वमहिंसायां धर्मोऽर्थश्च महीयते। मृतः स नित्यं भवति यो हिंसां प्रतिपद्यते
अहिंसकस्ततः सम्यग्धृतिमान्नियतेंद्रियः। शरण्यस्सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः। न मृत्युरधिकोभावः सोमृतत्वं च गच्छति
विमुक्तः सर्वसंगेभ्यो मुनिराकाशवत्स्थितः। विष्णुप्रियकरः शांतस्तं देवा ब्राह्मणं विदुः
जीवितं यस्य धर्मार्थं धर्मोरत्यर्थमेव च। अहोरात्रादि पुण्यार्थं तं देवा ब्राह्मणं विदुः
निवारितसमारंभं निर्नमस्कारमस्तुतिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः
सर्वाणि भूतानि सुखं रमंते सर्वाणि दुःखानि भृशं भवंति। तेषां भवोत्पादनजातखेदः कुर्यात्तु कर्माणि च श्रद्दधानः