तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः। नियतो नियताहारो विष्णुभक्तिप्रसक्तिमान्
तदाग्निहोत्रमात्राणि यज्ञांगानि च सर्वशः। अकृष्टं वै व्रीहियवं नीवारं विघसानि च
ग्रीष्मे हविष्यं प्रायच्छेत्स माघेष्वपि पंचसु। वानप्रस्थाश्रमेप्येताश्चतस्रो वृत्तयः स्मृताः
सद्यः प्रभक्षकाः केचित्केचिन्मासिकसंचयान्। वार्षिकान्संचयान्केचित्केचिद्द्वादशवार्षिकान्
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव च। अभ्रावकाशा वर्षासु हेमंते जलसंश्रयाः
ग्रीष्मे पंचाग्नितपसः शरद्यमृतभोजनाः। भूमौ विपरिवर्तंते तिष्ठंति प्रपदैरपि
स्थानासने च वर्तन्ते वसनेष्वपि संस्थिते। दंतोलूखलिनः केचिदश्मकुट्टास्तथा परे
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां क्वचित्। कृष्णपक्षे पिबंत्येके भुंजते च यथागमम्
मूलैरेके फलैरेके जलैरेके दृढव्रताः। वर्त्तयंति यथान्यायं वैखानस धृतव्रताः
एताश्चान्याश्च विविधा दीक्षास्तेषां मनस्विनां। चतुर्थश्चौपनिषदो धर्मः साधारणो मतः
वानप्रस्थो गृहस्थश्च सततोन्यः प्रवर्त्तते। तस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः
अगस्त्यश्च सप्तर्षयो मधुच्छंदो गवेषणः। सांकृतिः सदिवो भांडिर्यवप्रोथो ह्यथर्वणः
अहोवीर्यस्तथा काम्यः स्थाणुर्मेधातिथिर्बुधः। मनोवाकः शिनीवाकः शून्यपालो कृतव्रणः
एते कर्मसु विद्वांसस्ततः स्वर्गमुपागमन्। एते प्रत्यक्षधर्माणस्तथा यायावरागणाः
ऋषीणामुग्रतपसां धर्मनैपुण्यदर्शिनाम्। सुरेश्वरं समाराध्य ब्राह्मणा वनमाश्रिताः
अपास्योपरता मायां ब्राह्मणा वनमाश्रिताः। अनक्षत्रास्तथा धृष्या दृश्यन्ते प्रोषिता गणाः
जरया तु परिद्यूना व्याधिना परिपीडिताः। चतुर्थं त्वाश्रमं शेषं वानप्रस्थाश्रमाद्ययुः
सद्यस्कारी सुनिर्वाप्य सर्ववेदसदक्षिणाम्। आत्मयाजी सौम्यमतिरात्मक्रीडात्मसंश्रयः
आत्मन्यग्निं समाधाय त्यक्त्वासर्वपरिग्रहम्। सद्यस्कश्च यजेद्यज्ञानिष्टिं चैवेह सर्वदा
सदैव याजिनां यज्ञानात्मनीज्या प्रवर्त्तते। त्रीनेवाग्नींस्त्यजेत्सम्यगात्मन्येवात्मना क्षणात्३५० 1.15.
प्राप्नुयाद्येन वा यच्च तत्प्राश्नीयादकुत्सयन्। केशलोमनखान्न्यस्येद्वानप्रस्थाश्रमे रतः
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः। अभयं सर्वभूतेभ्यो यो दत्वा प्रव्रजेद्द्विजः
लोकास्तेजोमयास्तस्य प्रेत्य चानंत्यमश्नुते। सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र चरन्तुमीहते
अरोषमोहो गतसंधिविग्रहः स चेदुदासीनवदात्मचिंतया। यमेषु चैवान्यगतेषु न व्यथः स्वशास्त्रशून्यो हृदिनात्मविभ्रमः
भवेद्यथेष्टागतिरात्मयाजिनी निस्संशये धर्मपरे जितेन्द्रिये। अतःपरं श्रेष्ठमतीवसद्गुणैरधिष्ठितं त्रीनतिवर्त्य चाश्रमान्
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्। प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्
यत्कार्यं परमात्मार्थं तत्त्वमेकमनाः शृणु। काषायं धारयित्वा तु श्रेणीस्थानेषु च त्रिषु
यो व्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्। तद्भावनेन संन्यस्य वर्तनं श्रूयतां तथा
एक एव चरेद्धर्मं सिध्यर्थमसहायवान्। एकश्चरति यः पश्यन्न जहाति न हीयते
अनग्निरनिकेतस्तु ग्रामं भिक्षार्थमाश्रयेत्। अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः