स्वदारनिरतो दांतो दक्षोत्यर्थं जितेंद्रियः। ऋत्विक्पुरोहिताचार्यमातुलातिथिसंहतैः
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबंधि बांधवैः। मात्रा पित्रा च जामात्रा भ्रात्रा पुत्रेण भार्यया
दुहित्रा दासवर्गेण विवादं न समाचरेत्। एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते
एतैर्जितैस्तु जयति सर्वलोकान्न संशयः। आचार्यो ब्रह्मलोकेशः प्राजापत्य प्रभुः पिता
अतिथिः सर्वलोकेश ऋत्विग्वेदाश्रयः प्रभुः। जामाताप्सरसांलोके ज्ञातयो वैश्वदेविकाः
संबंधि बांधवा दिक्षु पृथिव्यां मातृमातुलौ। वृद्धबालातुराश्चैव आकाशे प्रभविष्णवः
पुरोधा ऋषिलोकेशः संश्रितास्साध्यलोकपाः। अश्विलोकपतिर्वैद्यो भ्राता तु वसुलोकपः
चंद्रलोकेश्वरी भार्या दुहिताप्सरसां गृहे। भ्राता ज्येष्ठः समः पित्रा भार्या पुत्र स्वकातनुः
कायस्था दासवर्गाश्च दुहिता कृपणं परम्। तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः
गृहधर्मरतो विद्वान्धर्मनिष्ठो जितक्लमः। नारभेद्बहुकार्याणि धर्मवान्किंचिदारभेत्
गृहस्थवृत्तयस्तिस्रस्तासां निश्रेयसं परं। परस्परं तथैवाहुश्चातुराश्रम्यमेव च
ये चोक्तानि यमास्तेषां सर्वं कार्यं बुभूषुणा। कुंभधान्यैरुंच्छशिलैः कापोतीं वृत्तिमाश्रितैः
यस्मिंश्चैते वसंत्यर्थास्तद्राष्ट्रमभिवर्धते। पूर्वापरान्दशपरान्पुनाति च पितामहान्
गृहस्थवृत्तिमप्येतां वर्तयेद्यो गतव्यथः। स चक्रधरलोकानां समानाम्प्राप्नुयाद्गतिम्
जितेंद्रियाणामथवा गतिरेषा विधीयते। स्वर्गलोको गृहस्थानां प्रतिष्ठा नियतात्मनां
ब्रह्मणाभिहता श्रेणी ह्येषा यस्याः प्रमुच्यते। द्वितीयां क्रमशः प्राप्य स्वर्गलोके महीयते
तृतीयामपि वक्ष्यामि वानप्रस्थाश्रमं शृणु। गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः
अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत्। गृहस्थव्रतखिन्नानां वानप्रस्थाश्रमौकसां
श्रूयतां भीष्म भद्रं ते सर्वलोकाश्रयात्मनां। दीक्षापूर्वं निवृत्तानां पुण्यदेशनिवासिनां
प्रज्ञाबलयुजां पुंसां सत्यशौचक्षमावतां। तृतीयमायुषो भागं वानप्रस्थाश्रमे वसन्
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः। नियतो नियताहारो विष्णुभक्तिप्रसक्तिमान्
तदाग्निहोत्रमात्राणि यज्ञांगानि च सर्वशः। अकृष्टं वै व्रीहियवं नीवारं विघसानि च
ग्रीष्मे हविष्यं प्रायच्छेत्स माघेष्वपि पंचसु। वानप्रस्थाश्रमेप्येताश्चतस्रो वृत्तयः स्मृताः
सद्यः प्रभक्षकाः केचित्केचिन्मासिकसंचयान्। वार्षिकान्संचयान्केचित्केचिद्द्वादशवार्षिकान्
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव च। अभ्रावकाशा वर्षासु हेमंते जलसंश्रयाः
ग्रीष्मे पंचाग्नितपसः शरद्यमृतभोजनाः। भूमौ विपरिवर्तंते तिष्ठंति प्रपदैरपि
स्थानासने च वर्तन्ते वसनेष्वपि संस्थिते। दंतोलूखलिनः केचिदश्मकुट्टास्तथा परे
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां क्वचित्। कृष्णपक्षे पिबंत्येके भुंजते च यथागमम्
मूलैरेके फलैरेके जलैरेके दृढव्रताः। वर्त्तयंति यथान्यायं वैखानस धृतव्रताः
एताश्चान्याश्च विविधा दीक्षास्तेषां मनस्विनां। चतुर्थश्चौपनिषदो धर्मः साधारणो मतः