त्वत्समीपं गताः सर्वे त्वमेव शरणं प्रभो । चशरणागतानां देवानां सहायं कुरु वै प्रभो
त्वं पतिस्त्वं मतिर्देव त्वं कर्ता त्वं च कारणम् । त्वं माता सर्वलोकानां त्वमेव जगतः पिता
भगवन्देवदेवेश शरणागतवत्सल । शरणं तव चायाता भयभीताश्च देवताः
देवता निर्जिताः सर्वाः स्वर्गभ्रष्टाः कृताः प्रभो । अत्युग्रेण हि दैत्येन मुरनाम्ना महौजसा । इंद्रस्य वचनं श्रुत्वा विष्णुर्वचनमब्रवीत्
श्रीभगवानुवाच- कीदृशो दानवः शक्र किं रूपं कीदृशं बलम् । क्व स्थानं तस्य दुष्टस्य किं वीर्यं कः पराक्रमः । किं वरं तस्य दुष्टस्य ममाख्याहि महामते
इंद्र उवाच- पूर्वं बभूव देवेश ब्रह्मवंशसमुद्भवः । तालजंघस्तु नाम्ना च अत्युग्रोऽपि महासुरः
तस्य पुत्रो हि विख्यातो मुरनामेति दानवः । अत्युत्कटो महावीर्यो देवतानां भयंकरः
पुरी चंद्रावती नाम्ना तत्र स्थाने वसत्यसौ । निर्जिता देवताः सर्वा स्वर्गात्तेन विवासिताः
इंद्रोऽन्यो रोपितस्तेन वातश्चैव हुताशनः । चंद्रसूर्यो कृतौ चान्यौ वायुर्वरुण एव च
सर्वमात्मकृतं तेन सत्यं सत्यं जनार्दन । देवलोकः कृतस्तेन सर्वस्थानविवर्जितः
तस्य तद्वचनं श्रुत्वा कोपमानो जनार्दनः । हनिष्ये दानवं दुष्टं देवतानां भयंकरम्
त्रिदशैः सहितो देवो गतश्चंद्रावतीं पुरीम् । दृष्टो देवैस्तु दैत्येंद्रो गर्जमानः पुनः पुनः
तेन सर्वे जिता देव गताश्चैव दिशो दश । हरिं निरीक्ष्य प्रोवाच तिष्ठतिष्ठेति दानवः
भगवानब्रवीत्तं च क्रोधसंरक्तलोचनः । श्रीभगवानुवाच- रे दानव दुराचार मम बाहुं निरीक्षय
ततस्ते सम्मुखाः सर्वे विष्णुना दुष्टदानवाः । हता बाणैः पुनर्दिव्यैर्जाताश्च भयविह्वलाः
चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पांडव । तेनच्छिन्नास्तु शतशो बहवो निधनं गताः
एकोपि दानवस्तत्र युध्यमानो मुहुर्मुहुः । नष्टाः सर्वे सुरास्तेन निर्जितो मधुसूदनः
निर्जितं तेन दैत्येन बाहुयुद्धमजायत । बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम्
विष्णुश्चिंतां प्रपन्नश्च नष्टाः सर्वाश्च देवताः । विष्णुश्च निर्जितस्तेन गतो बदरिकाश्रमम्
गुहा सिंहावती नाम तत्र सुप्तो जनार्दनः । योजनद्वादशवती एकद्वारा च पांडव
तस्यां विष्टः प्रसुप्तश्च दानवो हंतुमुद्यतः । महायुद्धेन तेनैव श्रांतोऽसौ योगमायया
दानवः पृष्ठतो लग्नो प्रविष्टः स तदा गुहाम् । प्रसुप्तं तत्र मां दृष्ट्वा दानवो हर्षमागतः
इत्थं मां निर्जितं मत्वा प्रविष्टं शंकया हरिम् । निःसंदेहं हनिष्यामि दानवानां भयंकरम्
निर्गता कन्यका तत्र विष्णुदेहाद्युधिष्ठिर । रूपवती सुसौभाग्या दिव्यप्रहरणायुधा
तस्य तेजोंऽशसंभूता महाबलपराक्रमा । दृष्टा सा दानवेंद्रेण मुरनाम्ना धनंजय
युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितम् । कन्यका युध्यते तत्र सर्वयुद्धविशारदा
हुंकारैर्भस्मसाज्जातो मुर नामा महासुरः । निहते दानवे तस्मिंस्तत्र देवस्त्वबुध्यत
पतितं दानवं दृष्ट्वा ततो विस्मयमागतः । केनायं च हतो रौद्रो ह्यत्युग्रो मम शात्रवः
अत्युग्रं च कृतं कर्म मम कारुण्यतः कृतम् । कन्योवाच- तेन देवाश्च गंधर्वा सयक्षोरगराक्षसाः
इंद्राद्याः सकला जित्वा स्वर्गाच्चैव निराकृताः । हरिः सुप्तो मया दृष्टो मुरः पृष्ठे समागतः