गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। यथोक्तकारिणः सर्वे गच्छंति परमां गतिम्
एकस्मिन्नाश्रमे धर्मं योऽनुतिष्ठेद्यथाविधि। अकामद्वेषसंयुक्तः स परत्र महीयते
चतुष्पथाहि निःश्रेणी ब्रह्मणेह प्रतिष्ठिता। एतामाश्रित्य निश्रेणीं ब्रह्मलोके महीयते
आयुषोऽपि चतुर्भागं ब्रह्मचार्यनसूयकः। गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता। दक्षिणानां प्रदापी स्यादाहूतो गुरुमाश्रयेत्
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि। यच्च शिष्येण कर्त्तव्यं कार्यमासेवनादिकम्
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत्तु पार्श्वतः। किंकरः सर्वकारी च सर्वकर्मसुकोविदः
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमथोत्तरम्। चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेंद्रियः
नाऽभुक्तवति चाश्नीयादपीतवति नो पिबेत्। न तिष्ठति तथासीत न सुप्तेनैव संविशेत्
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्। दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्
अभिवाद्य गुरुं ब्रूयादभिधां स्वां ब्रुवन्निति। इदं करिष्ये भगवन्निदं चापि मया कृतम्
इति सर्वं च विज्ञाप्य निवेद्य गुरवे धनम्। कुर्यात्कृतं च तत्सर्वमाख्येयं गुरवे पुनः
यांस्तु गंधान्रसान्वापि ब्रह्मचारी न सेवते। सेवेत तान्समावृत्य इति धर्मेषु निश्चयः
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः। तान्सर्वाननुगृह्णीयाद्भक्तश्शिष्यश्च वै गुरोः
स एव गुरवे प्रीतिमुपकृत्य यथाबलम्। अग्राम्येष्वाश्रमेष्वेव शिष्यो वर्तेत कर्मणा
वेदवेदौ तथा वेदान्वेदार्थांश्च तथा द्विजः। भिक्षाभुगप्यधःशायी समधीत्य गुरोर्मुखात्
वेदव्रतोपयोगी च चतुर्थांशेन योगतः। गुरवे दक्षिणां दत्वा समावर्तेद्यथाविधि
धर्मान्वितैर्युतो दारैरग्नीनावाह्य पूजयेत्। द्वितीयमायुषो भागं गृहमेधी समाचरेत्
गृहस्थवृत्तयः पूर्वं चतस्रो मुनिभिः कृताः। कुसूलधान्या प्रथमा कुंभीधान्या द्वितीयका
अश्वस्तनी तृतीयोक्ता कापोत्यथ चतुर्थिका। तासां परापरा श्रेष्ठा धर्मतो लोकजित्तमा३०० 1.15.
षट्कर्मवर्त्तकस्त्वेकस्त्रिभिरन्यः प्रसर्पते। द्वाभ्यां चैव चतुर्थस्तु द्विजः स ब्रह्मणि स्थितः
गृहमेधिव्रतादन्यन्महत्तीर्थं न चक्षते। नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशुम्
प्राणी वा यदि वाप्राणी संस्काराद्यज्ञमर्हति। न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः
न भुंजीतांतराकाले नानृतं तु वदेदिह। न चाप्यश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः
तथास्यातिथयः पूज्या हव्यकव्यवहाः स्मृताः। वेदविद्याव्रतस्नाता श्रोत्रिया वेदपारगाः
स्वकर्मजीविनोदांताः क्रियावंतस्तपस्विनः। तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते
नश्वरैस्संप्रयातस्य स्वधर्मापगतस्य च। अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः
असत्याभिनिवेशस्य नाधिकारोस्ति कर्मणोः। संविभागोत्र भूतानां सर्वेषामेव शिष्यते
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना। विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः
अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम्। संभुक्तशेषं योश्नाति तमाहुर्विघसाशिनम्