वसंति पुष्करे ये तु नराः सुकृतकर्मिणः। ते लभंते महाभोगान्क्षेत्रस्यास्य प्रभावतः
यथा महोदधेस्तुल्यो न चान्योऽस्ति जलाशयः। तथा वै पुष्करस्यापि समं तीर्थं न विद्यते
पुष्करारण्यसदृशं तीर्थं नास्त्यधिकं गुणैः। अथ तेऽन्यान्प्रवक्ष्यामि क्षेत्रे येऽस्मिन्व्यवस्थिताः
विष्णुना सहिताः सर्व इंद्राद्याश्च दिवौकसः। गजवक्त्रः कुमारश्च रेवंतः सदिवाकरः
शिवदूती तथा देवी कन्या क्षेमंकरी सदा। अलं तपोभिर्नियमैः सुक्रियार्चनकारिणाम्
व्रतोपवासकर्माणि कृत्वान्यत्र महांत्यपि। ज्येष्ठे तु पुष्करारण्ये यस्तिष्ठति निरुद्यमः
लभते सर्वकामित्वं योऽत्रैवास्ते द्विजः सदा। पितामहसमं याति स्थानं परममव्ययम्
कृते द्वादशभिर्वर्षैस्त्रेतायां हायनेन तु। मासेन द्वापरे भीष्म अहोरात्रेण तत्कलौ
फलं संप्राप्यते लोके क्षेत्रेस्मिंस्तीर्थवासिभिः। इत्येवं देवदेवेन पुरोक्तं ब्रह्मणा मम
नातः परतरं किंचित्क्षेत्रमस्तीह भूतले। तस्मात्सर्वप्रयत्नेनारण्यमेतत्समाश्रयेत्
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। यथोक्तकारिणः सर्वे गच्छंति परमां गतिम्
एकस्मिन्नाश्रमे धर्मं योऽनुतिष्ठेद्यथाविधि। अकामद्वेषसंयुक्तः स परत्र महीयते
चतुष्पथाहि निःश्रेणी ब्रह्मणेह प्रतिष्ठिता। एतामाश्रित्य निश्रेणीं ब्रह्मलोके महीयते
आयुषोऽपि चतुर्भागं ब्रह्मचार्यनसूयकः। गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता। दक्षिणानां प्रदापी स्यादाहूतो गुरुमाश्रयेत्
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि। यच्च शिष्येण कर्त्तव्यं कार्यमासेवनादिकम्
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत्तु पार्श्वतः। किंकरः सर्वकारी च सर्वकर्मसुकोविदः
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमथोत्तरम्। चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेंद्रियः
नाऽभुक्तवति चाश्नीयादपीतवति नो पिबेत्। न तिष्ठति तथासीत न सुप्तेनैव संविशेत्
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्। दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्
अभिवाद्य गुरुं ब्रूयादभिधां स्वां ब्रुवन्निति। इदं करिष्ये भगवन्निदं चापि मया कृतम्
इति सर्वं च विज्ञाप्य निवेद्य गुरवे धनम्। कुर्यात्कृतं च तत्सर्वमाख्येयं गुरवे पुनः
यांस्तु गंधान्रसान्वापि ब्रह्मचारी न सेवते। सेवेत तान्समावृत्य इति धर्मेषु निश्चयः
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः। तान्सर्वाननुगृह्णीयाद्भक्तश्शिष्यश्च वै गुरोः
स एव गुरवे प्रीतिमुपकृत्य यथाबलम्। अग्राम्येष्वाश्रमेष्वेव शिष्यो वर्तेत कर्मणा
वेदवेदौ तथा वेदान्वेदार्थांश्च तथा द्विजः। भिक्षाभुगप्यधःशायी समधीत्य गुरोर्मुखात्
वेदव्रतोपयोगी च चतुर्थांशेन योगतः। गुरवे दक्षिणां दत्वा समावर्तेद्यथाविधि
धर्मान्वितैर्युतो दारैरग्नीनावाह्य पूजयेत्। द्वितीयमायुषो भागं गृहमेधी समाचरेत्
गृहस्थवृत्तयः पूर्वं चतस्रो मुनिभिः कृताः। कुसूलधान्या प्रथमा कुंभीधान्या द्वितीयका
अश्वस्तनी तृतीयोक्ता कापोत्यथ चतुर्थिका। तासां परापरा श्रेष्ठा धर्मतो लोकजित्तमा३०० 1.15.