बह्वाश्चर्यसमोपेतैः क्रीडाविज्ञानशालिभिः। सुप्रभैर्गुणसंपन्नैर्मयूरवरवाहिभिः
ब्रह्मलोके नरा धीरा रमंते नाशके मृताः। तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथेप्सितान्
धनी विप्नकुले भोगी जायते मर्त्यमागतः। कारीषीं साधयेद्यस्तु पुष्करे तु वने नरः
सर्वलोकान्परित्यज्य ब्रह्मलोकं स गच्छति। ब्रह्मलोके वसेत्तावद्यावत्कल्पक्षयो भवेत्
नैव पश्यति मर्त्यं हि क्लिश्यमानं स्वकर्मभिः। गतिस्तस्याऽप्रतिहता तिर्यगूर्ध्वमधस्तथा
स पूज्यः सर्वलोकेषु यशो विस्तारयन्वशी। सदाचारविधिप्रज्ञः सर्वेन्द्रिय मनोहरः
नृत्यवादित्रगीतज्ञः सुभगः प्रियदर्शनः। नित्यमम्लानकुसुमो दिव्याभरणभूषितः
नीलोत्पलदलश्यामो नीलकुंचितमूर्द्धजः। अजघन्याः सुमध्याश्च सर्वसौभाग्यपूरिताः
सर्वैश्वर्यगुणोपेता यौवनेनातिगर्विताः। स्त्रियः सेवंति तत्रस्थाः शयने रमयंति च
वीणावेणुनिनादैश्च सुप्तः संप्रतिबुध्यते। महोत्सवसुखं भुंक्ते दुःप्राप्यमकृतात्मभिः२५० 1.15.
प्रसादाद्देवदेवस्य ब्रह्मणः शुभकारिणः। भीष्म उवाच। आचाराः परमा धर्माः क्षेत्रधर्मपरायणाः
स्वधर्माचारनिरता जितक्रोधा जितेंद्रियाः। ब्रह्मलोकं व्रजंतीति नैतच्चित्रं मतं मम
असंशयं च गच्छंति लोकानन्यानपि द्विजाः। विना पद्मोपवासेन तथैव नियमेन च
स्त्रियो म्लेछाश्च शूद्राश्च पक्षिणः पशवो मृगाः। मूका जडान्धबधिरास्तपो नियमवर्जिताः
तेषां वद गतिं विप्र पुष्करे ये त्ववस्थिताः। पुलस्त्य उवाच। स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः
पुष्करे तु मृता भीष्म ब्रह्मलोकं व्रजंति ते। शरीरैर्दिव्यरूपैस्तु विमानै रविसप्रभैः
दिव्यव्यूहसमायुक्तैः सुवर्णवरकेतनैः। सुवर्णवज्रसोपानमणिस्तंभविभूषितैः
सर्वकामोपभोगाढ्यैः कामगैः कामरूपिभिः। नानारसाढ्यं गच्छंति स्त्रीसहस्रसमाकुलाः
ब्रह्मलोकं महात्मानो लोकानन्यान्यथेप्सितान्। ब्रह्मलोकाच्च्युताश्चापि क्रमाद्द्वीपेषु यांति ते
कुले महति विस्तीर्णे धनी भवति स द्विजः। तिर्यग्योनि गता ये तु सर्पकीटपिपीलिकाः
स्थलजा जलजाश्चैव स्वेदांडोद्भिज्जरायुजाः। सकामा वाप्यकामा वा पुष्करे तु वने मृताः
सूर्यप्रभविमानस्था ब्रह्मलोकं प्रयांति ते। कलौ युगे महाघोरे प्रजाः पापसमीरिताः
नान्येनास्मिन्नुपायेन धर्मः स्वर्गश्च लभ्यते। वसंति पुष्करे ये तु ब्रह्मार्चनरता नराः
कलौ युगे कृतार्थास्ते क्लिश्यंत्यन्ये निरर्थकाः। रात्रौ करोति यत्पापं नरः पंचभिरिंद्रियैः
कर्मणा मनसा वाचा कामक्रोधवशानुगाः। प्रातः स जलमासाद्य पुष्करे तु पितामहम्
अभिगम्य शुचिर्भूत्त्वा तस्मात्पापात्प्रमुच्यते। उदयेऽर्कस्य चारभ्य यावद्दर्शनमूर्ध्वगम्
मानसाख्ये प्रसंचिंत्य ब्रह्मयोगे हरेदघम्। दृष्ट्वा विरिंचिं मध्याह्ने नरः पापात्प्रमुच्यते
मध्याह्नास्तमयान्तं यदिंद्रियैः पापमाचरेत्। पितामहस्य संध्यायां दर्शनादेव मुच्यते
शब्दादीन्विषयान्सर्वान्भुंजानोपि सकामतः। यः पुष्करे ब्रह्मभक्तो निवसेत्तपसि स्थितः
पुष्करारण्यमध्यस्थो मिष्टान्नास्वादभोजनः। त्रिकालमपि भुंजानो वायुभक्षसमो मतः