सुरूपः सुभगः कांतः कीर्तिमान्भक्तिभावितः। ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः
स्वधर्मनिरता राजन्सुवृत्ताश्चिरजीविनः। सर्वात्मना ब्रह्मभक्ता भूतानुग्रहकारिणः
पुष्करे तु महाक्षेत्रे ये वसंति मुमुक्षवः। मृतास्ते ब्रह्मभवनं विमानैर्यांति शोभनैः
अप्सरोगणसंघुष्टैः कामगैः कामरूपिभिः। अथवा सर्वदीप्ताग्नौ स्वशरीरं जुहोति यः
ब्रह्मध्यायी महासत्वस्स ब्रह्मभवनं व्रजेत्। ब्रह्मलोकोऽक्षयस्तस्य शाश्वतो विभवैः सह
सर्वलोकोत्तमो रम्यो भवतीष्टार्थसाधकः। पुष्करे तु महापुण्ये प्राणान्ये सलिले त्यजन्
तेषामप्यक्षयो भीष्म ब्रह्मलोको महात्मनाम्। साक्षात्पश्यंति ते देवं सर्वदुःखविनाशनम्
सर्वामरयुतं देवं रुद्रविष्णुगणैर्युतम्। अनाशके मृताश्शूद्राः पुष्करे तु वने नराः
हंसयुक्तैस्ततो यांति विमानैरर्कसप्रभैः। नानारत्नसुवर्णाढ्यैर्दृढैर्गंधाधिवासितैः
अनौपम्यगुणैरन्यैरप्सरोगीतनादितैः। पताकाध्वजविन्यस्तैर्नानाघण्टानिनादितैः
बह्वाश्चर्यसमोपेतैः क्रीडाविज्ञानशालिभिः। सुप्रभैर्गुणसंपन्नैर्मयूरवरवाहिभिः
ब्रह्मलोके नरा धीरा रमंते नाशके मृताः। तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथेप्सितान्
धनी विप्नकुले भोगी जायते मर्त्यमागतः। कारीषीं साधयेद्यस्तु पुष्करे तु वने नरः
सर्वलोकान्परित्यज्य ब्रह्मलोकं स गच्छति। ब्रह्मलोके वसेत्तावद्यावत्कल्पक्षयो भवेत्
नैव पश्यति मर्त्यं हि क्लिश्यमानं स्वकर्मभिः। गतिस्तस्याऽप्रतिहता तिर्यगूर्ध्वमधस्तथा
स पूज्यः सर्वलोकेषु यशो विस्तारयन्वशी। सदाचारविधिप्रज्ञः सर्वेन्द्रिय मनोहरः
नृत्यवादित्रगीतज्ञः सुभगः प्रियदर्शनः। नित्यमम्लानकुसुमो दिव्याभरणभूषितः
नीलोत्पलदलश्यामो नीलकुंचितमूर्द्धजः। अजघन्याः सुमध्याश्च सर्वसौभाग्यपूरिताः
सर्वैश्वर्यगुणोपेता यौवनेनातिगर्विताः। स्त्रियः सेवंति तत्रस्थाः शयने रमयंति च
वीणावेणुनिनादैश्च सुप्तः संप्रतिबुध्यते। महोत्सवसुखं भुंक्ते दुःप्राप्यमकृतात्मभिः२५० 1.15.
प्रसादाद्देवदेवस्य ब्रह्मणः शुभकारिणः। भीष्म उवाच। आचाराः परमा धर्माः क्षेत्रधर्मपरायणाः
स्वधर्माचारनिरता जितक्रोधा जितेंद्रियाः। ब्रह्मलोकं व्रजंतीति नैतच्चित्रं मतं मम
असंशयं च गच्छंति लोकानन्यानपि द्विजाः। विना पद्मोपवासेन तथैव नियमेन च
स्त्रियो म्लेछाश्च शूद्राश्च पक्षिणः पशवो मृगाः। मूका जडान्धबधिरास्तपो नियमवर्जिताः
तेषां वद गतिं विप्र पुष्करे ये त्ववस्थिताः। पुलस्त्य उवाच। स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः
पुष्करे तु मृता भीष्म ब्रह्मलोकं व्रजंति ते। शरीरैर्दिव्यरूपैस्तु विमानै रविसप्रभैः
दिव्यव्यूहसमायुक्तैः सुवर्णवरकेतनैः। सुवर्णवज्रसोपानमणिस्तंभविभूषितैः
सर्वकामोपभोगाढ्यैः कामगैः कामरूपिभिः। नानारसाढ्यं गच्छंति स्त्रीसहस्रसमाकुलाः
ब्रह्मलोकं महात्मानो लोकानन्यान्यथेप्सितान्। ब्रह्मलोकाच्च्युताश्चापि क्रमाद्द्वीपेषु यांति ते
कुले महति विस्तीर्णे धनी भवति स द्विजः। तिर्यग्योनि गता ये तु सर्पकीटपिपीलिकाः