बालसूर्यप्रकाशेन विमानेन सुवर्चसा। वृतः स्त्रीणां सहस्रैस्तु स्वंच्छदगमनालयः
विचरत्यनिवार्येण सर्वलोकान्यदृच्छया। स्पृहणीयतमः पुंसां सर्वधर्मोत्तमो धनी
स्वर्गच्युतः प्रजायेत कुले महति रूपवान्। धर्मज्ञो धर्मभक्तश्च सर्वविद्यार्थपारगः
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च। वेदाध्ययनसंयुक्तो भैक्ष्यवृतिर्जितेन्द्रियः
नित्यं सत्यव्रते युक्तः स्वधर्मेष्वप्रमादवान्। सर्वकामसमृद्धेन सर्वकामावलंबिना
सूर्येणेव द्वितीयेन विमानेनानिवारितः। गुह्यकानामब्रह्माख्य गणाः परमसंमताः
अप्रमेयबलैश्वर्या देवदानवपूजिताः। तेषां स समता याति तुल्यैश्वर्यसमन्वितः
देवदानवमर्त्येषु भवत्यनियतायुधः। वर्षकोटिसहस्राणि वर्षकोटिशतानि च
एवमैश्वर्यसंयुक्तो विष्णुलोके महीयते। उषित्वाऽसौ विभूत्यैवं यदा प्रच्यवते पुनः
विष्णुलोकात्स्वकृत्येन स्वर्गस्थानेषु जायते
पुष्करारण्यमासाद्य ब्रह्मचर्याश्रमे स्थितः। अभ्यासेन तु वेदानां वसति म्रियतेपि वा
मृतोऽसौ याति दिव्येन विमानेन स्वतेजसा। पूर्णचंद्रप्रकाशेन शशिवत्प्रियदर्शनः
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते। ऐश्वर्यं महदाप्नोति सर्वस्य जगतः प्रभुः
भुक्त्वा युगसहस्राणि रुद्रलोके महीयते। प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु
नित्यं प्रमुदितस्तत्र भुक्त्वा सुखमनामयम्। द्विजानां सदने दिव्ये कुले महति जायते
मानुषेषु स धर्म्मात्मा सुरूपो वाक्पतिर्भवेत्। स्पृहणीयवपुः स्त्रीणाम्महाभोगपतिर्बली
वानप्रस्थसमाचारी ग्राम्यौषधिविवर्जितः। सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते
शीर्णपर्णफलाहारः पुष्पमूलांबुभोजनः। कापोतेनाश्मकुट्टेन दंतोलूखलिकेन च
वृत्युपायेन जीवेत चीरवल्कलवाससा। जटीत्रिषवणस्नायी त्यक्तदोषस्तु दंडवान्
कृच्छ्रव्रतपरो यस्तु श्वपचो यदि वा परः। जलशायी पंचतपा वर्षास्वभ्रावगाहकः
कीटकंटकपाषाणभूम्यां तु शयनं तथा। स्थानवीरासनरतः संविभागी दृढव्रतः
अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः। नित्यं धर्मार्जनरतो जितक्रोधो जितेंद्रियः
ब्रह्मभक्तः क्षेत्रवासी पुष्करे वसते मुनिः। सर्वसंगपरित्यागी स्वारामो विगतस्पृहः
यश्चात्र वसते भीष्म शृणु तस्यापि या गतिः। तरुणार्कप्रकाशेन वेदिकास्तंभशोभिना
ब्रह्मभक्तो विमानेन याति कामप्रचारिणाम्। विराजमानो नभसि द्वितीय इव चंद्रमाः
गीतवादित्रनृत्यज्ञैर्गंधर्वाप्सरसांगणैः। अप्सरोभिः समायुक्तो वर्षकोटिशतान्यसौ
यस्य कस्यापि देवस्य लोकं यात्यनिवारितः। ब्रह्मणोऽनुग्रहेणैव तत्रतत्र विराजते
ब्रह्मलोकाच्च्युतश्चापि विष्णुलोकं स गच्छति। विष्णुलोकात्परिभ्रष्टो रुद्रलोकं स गच्छति
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते। स्वर्गेषु च तथान्येषु भोगान्भुक्त्वा यथेप्सितान्
भुक्त्वैश्वर्यं ततस्तेषु पुनर्मर्त्येषु जायते। राजा वा राजपुत्रो वा जायते धनवान्सुखी