साधर्म्यमानमैश्वर्यं प्रधानं च विधर्मि च। कारणत्वं च ब्रह्मत्वं काम्यत्वमिदमुच्यते
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते। सर्वत्रकर्तृस्यद्ब्रह्मपुरुषस्याप्यकर्तृता
चेतनत्वं प्रधाने च साधर्म्यमिदमुच्यते। तत्वांतरं च तत्वानां कर्मकारणमेव च
प्रयोजनं च नैयोज्यमैश्वर्यं तत्वसंख्यया। संख्यास्तीत्युच्यते प्राज्ञैर्विनिश्चित्यार्थचिंतकैः
इति तत्वस्य संभारं तत्वसंख्या च तत्वतः। ब्रह्मतत्वाधिकं चापि श्रुत्वा तत्वं विदुर्बुधाः
सांख्यकृद्भक्तिरेषा च सद्भिराध्यात्मिकी कृता। योगजामपि भक्तानां शृणु भक्तिं पितामहे
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः। भैक्ष्यभक्षी व्रती वापि सर्वप्रत्याहृतेंद्रियः
धारणं हृदये कुर्याद्ध्यायमानः प्रजेश्वरम्। हृत्पद्मकर्णिकासीनं रक्तवक्त्रं सुलोचनम्
परितो द्योतितमुखं ब्रह्मसूत्रकटीतटम्। चतुर्वक्त्रं चतुर्बाहुं वरदाभयहस्तकम्
योगजा मानसी सिद्धिर्ब्रह्मभक्तिः परा स्मृता। य एवं भक्तिमान्देवे ब्रह्मभक्तः स उच्यते
वृत्तिं च शृणु राजेंद्र या स्मृता क्षेत्रवासिनाम्। स्वयं देवेन विप्राणां विष्ण्वादीनां समागमे
कथिता विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ। निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः
बंधुवर्गे च निःस्नेहास्समलोष्टाश्मकांचनाः। भूतानां कर्मभिर्नित्यैर्विविधैरभयप्रदाः
प्राणायामपरा नित्यं परध्यानपरायणाः। याजिनः शुचयो नित्यं यतिधर्मपरायणाः
सांख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः। यजंते विधिनानेन ये विप्राः क्षेत्रवासिनः
अरण्ये पौष्करे तेषां मृतानां सत्फलं शृणु। व्रजंति ते सुदुष्प्रापं ब्रह्मसायुज्यमक्षयम्
यत्प्राप्य न पुनर्जन्म लभन्ते मृत्युदायकम्। पुनरावर्तनं हित्वा ब्राह्मीविद्यां समास्थिताः
पुनरावृत्तिरन्येषां प्रपंचाश्रमवासिनाम्। गार्हस्थ्यविधिमाश्रित्य षट्कर्मनिरतः सदा
जुहोति विधिना सम्यङ्मंत्रैर्यज्ञे निमंत्रितः। अधिकं फलमाप्नोति सर्वदुःखविवर्जितः
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते। दिव्येनैश्वर्ययोगेन स्वारूढः सपरिग्रहः२०० 1.15.
बालसूर्यप्रकाशेन विमानेन सुवर्चसा। वृतः स्त्रीणां सहस्रैस्तु स्वंच्छदगमनालयः
विचरत्यनिवार्येण सर्वलोकान्यदृच्छया। स्पृहणीयतमः पुंसां सर्वधर्मोत्तमो धनी
स्वर्गच्युतः प्रजायेत कुले महति रूपवान्। धर्मज्ञो धर्मभक्तश्च सर्वविद्यार्थपारगः
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च। वेदाध्ययनसंयुक्तो भैक्ष्यवृतिर्जितेन्द्रियः
नित्यं सत्यव्रते युक्तः स्वधर्मेष्वप्रमादवान्। सर्वकामसमृद्धेन सर्वकामावलंबिना
सूर्येणेव द्वितीयेन विमानेनानिवारितः। गुह्यकानामब्रह्माख्य गणाः परमसंमताः
अप्रमेयबलैश्वर्या देवदानवपूजिताः। तेषां स समता याति तुल्यैश्वर्यसमन्वितः
देवदानवमर्त्येषु भवत्यनियतायुधः। वर्षकोटिसहस्राणि वर्षकोटिशतानि च
एवमैश्वर्यसंयुक्तो विष्णुलोके महीयते। उषित्वाऽसौ विभूत्यैवं यदा प्रच्यवते पुनः
विष्णुलोकात्स्वकृत्येन स्वर्गस्थानेषु जायते