नृत्यवादित्रगीतैश्च सर्वरत्नोपहारकैः। भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः
पितामहं समुद्दिश्य भक्तिस्सा लौकिकी मता। वेदमंत्रहविर्योगैर्भक्तिर्या वैदिकी मता
दर्शे वा पौर्णमास्यां वा कर्तव्यमग्निहोत्रकम्। प्रशस्तं दक्षिणादानं पुरोडाशं चरुक्रिया
इष्टिर्धृतिः सोमपानां यज्ञीयं कर्म सर्वशः। ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च
क्रियंते विधिमुद्दिश्य सा भक्तिर्वैदिकीष्यते। अग्नि भूम्यनिलाकाशांबुनिशाकरभास्करम्
समुद्दिश्य कृतं कर्म तत्सर्वं ब्रह्मदैवतम्। आध्यात्मिकी तु द्विविधा ब्रह्मभक्तिः स्थिता नृप
संख्याख्या योगजा चान्या विभागं तत्र मे शृणु। चतुर्विंशतितत्वानि प्रधानादीनि संख्यया
अचेतनानि भोग्यानि पुरुषः पंचविंशकः। चेतनः पुरुषो भोक्ता न कर्ता तस्य कर्मणः
आत्मा नित्योऽव्ययश्चैव अधिष्ठाता प्रयोजकः। अव्यक्तः पुरुषो नित्यः कारणं च पितामहः
तत्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः। संख्यया परिसंख्याय प्रधानं च गुणात्मकम्
साधर्म्यमानमैश्वर्यं प्रधानं च विधर्मि च। कारणत्वं च ब्रह्मत्वं काम्यत्वमिदमुच्यते
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते। सर्वत्रकर्तृस्यद्ब्रह्मपुरुषस्याप्यकर्तृता
चेतनत्वं प्रधाने च साधर्म्यमिदमुच्यते। तत्वांतरं च तत्वानां कर्मकारणमेव च
प्रयोजनं च नैयोज्यमैश्वर्यं तत्वसंख्यया। संख्यास्तीत्युच्यते प्राज्ञैर्विनिश्चित्यार्थचिंतकैः
इति तत्वस्य संभारं तत्वसंख्या च तत्वतः। ब्रह्मतत्वाधिकं चापि श्रुत्वा तत्वं विदुर्बुधाः
सांख्यकृद्भक्तिरेषा च सद्भिराध्यात्मिकी कृता। योगजामपि भक्तानां शृणु भक्तिं पितामहे
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः। भैक्ष्यभक्षी व्रती वापि सर्वप्रत्याहृतेंद्रियः
धारणं हृदये कुर्याद्ध्यायमानः प्रजेश्वरम्। हृत्पद्मकर्णिकासीनं रक्तवक्त्रं सुलोचनम्
परितो द्योतितमुखं ब्रह्मसूत्रकटीतटम्। चतुर्वक्त्रं चतुर्बाहुं वरदाभयहस्तकम्
योगजा मानसी सिद्धिर्ब्रह्मभक्तिः परा स्मृता। य एवं भक्तिमान्देवे ब्रह्मभक्तः स उच्यते
वृत्तिं च शृणु राजेंद्र या स्मृता क्षेत्रवासिनाम्। स्वयं देवेन विप्राणां विष्ण्वादीनां समागमे
कथिता विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ। निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः
बंधुवर्गे च निःस्नेहास्समलोष्टाश्मकांचनाः। भूतानां कर्मभिर्नित्यैर्विविधैरभयप्रदाः
प्राणायामपरा नित्यं परध्यानपरायणाः। याजिनः शुचयो नित्यं यतिधर्मपरायणाः
सांख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः। यजंते विधिनानेन ये विप्राः क्षेत्रवासिनः
अरण्ये पौष्करे तेषां मृतानां सत्फलं शृणु। व्रजंति ते सुदुष्प्रापं ब्रह्मसायुज्यमक्षयम्
यत्प्राप्य न पुनर्जन्म लभन्ते मृत्युदायकम्। पुनरावर्तनं हित्वा ब्राह्मीविद्यां समास्थिताः
पुनरावृत्तिरन्येषां प्रपंचाश्रमवासिनाम्। गार्हस्थ्यविधिमाश्रित्य षट्कर्मनिरतः सदा
जुहोति विधिना सम्यङ्मंत्रैर्यज्ञे निमंत्रितः। अधिकं फलमाप्नोति सर्वदुःखविवर्जितः
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते। दिव्येनैश्वर्ययोगेन स्वारूढः सपरिग्रहः२०० 1.15.