विमुक्तः सर्वपापेभ्यो नाऽसौ दुर्गतिमाप्नुयात्। यथाहं सर्वदेवानां ज्येष्ठः श्रेष्ठः पितामहः
तथा ज्ञानी सदा पूज्यो निर्ममो निः परिग्रहः। संसारबंधमोक्षार्थं ब्रह्मगुप्तमिदं व्रतम्
मया प्रणीतं विप्राणामपुनर्भवकारणम्। अग्निहोत्रमुपादाय यस्त्यजेदजितेंद्रियः
रौरवं स प्रयात्याशु प्रणीतो यमकिंकरैः। लोकयात्रावितंडश्च क्षुद्रं कर्म करोति यः
स रागचित्तः शृंगारी नारीजन धनप्रियः। एकभोजी सुमिष्टाशी कृषिवाणिज्यसेवकः
अवेदो वेदनिंदी च परभार्यां च सेवते। इत्यादिदोषदुष्टो यस्तस्य संभाषणादपि
नरो नरकगामी स्याद्यश्च सद्व्रतदूषकः। असंतुष्टं भिन्नचित्तं दुर्मतिं पापकारिणम्
न स्पृशेदंगसंगेन स्पृष्ट्वा स्नानेन शुद्ध्यति। एवमुक्त्वा स भगवान्ब्रह्मा तैरमरैः सह
क्षेत्रं निवेशयामास यथावत्कथयामि ते। उत्तरे चंद्रनद्यास्तु प्राची यावत्सरस्वती
पूर्वं तु नंदनात्कृत्स्नं यावत्कल्पं सपुष्करम्। वेदी ह्येषा कृता यज्ञे ब्रह्मणा लोककारिणा१५० 1.15.
ज्येष्ठं तु प्रथमं ज्ञेयं तीर्थं त्रैलोक्यपावनम्। ख्यातं तद्ब्रह्मदैवत्यं मध्यमं वैष्णवं तथा
कनिष्ठं रुद्रदैवत्यं ब्रह्मपूर्वमकारयत्। आद्यमेतत्परं क्षेत्रं गुह्यं वेदेषु पठ्यते
अरण्यं पुष्कराख्यं तु ब्रह्मा सन्निहितः प्रभुः। अनुग्रहो भूमिभागे कृतो वै ब्रह्मणा स्वयम्
अनुग्रहार्थं विप्राणां सर्वेषां भूमिचारिणाम्। सुवर्णवज्रपर्यंता वेदिकांका मही कृता
विचित्रकुट्टिमारत्नैः कारिता सर्वशोभना। रमते तत्र भगवान्ब्रह्मा लोकपितामहः
विष्णुरुद्रौ तथा देवौ वसवोप्यश्विनावपि ?। मरुतश्च महेंद्रेण रमंते च दिवौकसः
एतत्ते तथ्यमाख्यातं लोकानुग्रहकारणम्। संहितानुक्रमेणात्र मंत्रैश्च विधिपूर्वकम्
वेदान्पठंति ये विप्रा गुरुशुश्रूषणे रताः। वसंति ब्रह्मसामीप्ये सर्वे तेनानुभाविताः
भीष्म उवाच। भगवन्केन विधिना अरण्ये पुष्करे नरैः। ब्रह्मलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः
किं मनुष्यैरुतस्त्रीभिरुत वर्णाश्रमान्वितैः। वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि मे
पुलस्त्य उवाच। नरैः स्त्रीभिश्च वस्तव्यं वर्णाश्रमनिवासिभिः। स्वधर्माचारनिरतैर्दंभमोहविवर्जितैः
कर्मणा मनसा वाचा ब्रह्मभक्तैर्जितेंद्रियैः। अनसूयुभिरक्षुद्रैः सर्वभूतहिते रतैः
भीष्म उवाच। किं कुर्वाणो नरः कर्म ब्रह्मभक्तस्त्विहोच्यते। कीदृशा ब्रह्मभक्ताश्च स्मृता नॄणां वदस्व मे
पुलस्त्य उवाच। त्रिविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा। लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा
ध्यानधारणया बुद्ध्या वेदार्थस्मरणे हि यत्। ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते
मंत्रवेदनमस्कारैरग्निश्राद्धादिचिंतनैः। जाप्यैश्चावश्यकैश्चैव वाचिकी भक्तिरिष्यते
व्रतोपवासनियतैश्चितेंद्रियनिरोधिभिः। भूषणैर्हेमरत्नाढ्यैस्तथा चांद्रायणादिभिः
ब्रह्मकृच्छ्रोपवासैश्च तथाचान्यैः शुभव्रतैः। कायिकीभक्तिराख्याता त्रिविधा तु द्विजन्मनाम्
गोघृतक्षीरदधिभिः रत्नदीपकुशोदकैः। गंधैर्माल्यैश्च विविधैर्धातुभिश्चोपपादितैः
घृतगुग्गुलुधूपैश्च कृष्णागरुसुगंधिभिः। भूषणैर्हेमरत्नाढ्यैश्चित्राभिः स्रग्भिरेव च