भक्त्या परमया युक्ता विधिना परमेण च। कालेन महता ध्यानाद्देवज्ञानमनोगताः
ब्रह्मध्यानाग्निनिर्दग्धा यदा शुद्धैकमानसाः। अविर्बभूव भगवान्सर्वेषां दृष्टिगोचरः
तेजसाप्यायितास्तस्य बभूवुर्भ्रांतचेतसः। ततोवलंब्य ते धैर्यमिष्टं देवं यथाविधि
षडंगवेदयोगेन हृष्टचित्तास्तु तत्पराः। शिरोगतैरंजलिभिः शिरोभिश्च महीं गताः
तुष्टुवुः सृष्टिकर्त्तारं स्थितिकर्तारमीश्वरम्। देवा ऊचुः। ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायाऽजिताय च
नमस्कुर्मः सुनियताः क्रतुवेदप्रदायिने। लोकानुकंपिने देव सृष्टिरूपाय वै नमः
भक्तानुकंपिनेत्यर्थं वेदजाप्यस्तुताय च। बहुरूपस्वरूपाय रूपाणां शतधारिणे
सावित्रीपतये देव गायत्रीपतये नमः। पद्मासनाय पद्माय पद्मवक्त्राय ते नमः
वरदाय वरार्हाय कूर्माय च मृगाय च। जटामकुटयुक्ताय स्रुवस्रुचनिधारिणे
मृगांकमृगधर्माय धर्मनेत्राय ते नमः। विश्वनाम्नेऽथ विश्वाय विश्वेशाय नमोनमः
धर्मनेत्रत्राणमस्मादधिकं कर्तुमर्हसि। वाङ्मनःकायभावैस्त्वां प्रपन्नास्स्मः पितामह
एवं स्तुतस्तदा देवैर्ब्रह्मा ब्रह्मविदां वरः। प्रदास्यामि स्मृतो बाढममोघं दर्शनं हि वः
ब्रुवंतु वांछितं पुत्राः प्रदास्यामि वरान्वरान्। एवमुक्ता भगवता देवा वचनमब्रुवन्
एष एवाद्य भगवन्सुपर्याप्तो महान्वरः। जनितो नः सुशब्दोयं कमलं क्षिपता त्वया
किमर्थं कंपिता भूमिर्लोकाश्चाकुलिताः कृताः। नैतन्निरर्थकं देव उच्यतामत्र कारणम्
ब्रह्मोवाच। युष्मद्धितार्थमेतद्वै पद्मं विनिहितं मया। देवतानां च रक्षार्थं श्रूयतामत्र कारणम्
असुरो वज्रनाभोऽयं बालजीवापहारकः। अवस्थितस्त्ववष्टभ्य रसातलतलाश्रयम्
युष्मदागमनं ज्ञात्वा तपस्थान्निहितायुधान्। हंतुकामो दुराचारः सेंद्रानपि दिवौकसः
घातः कमलपातेन मया तस्य विनिर्मितः। स राज्यैश्वर्यदर्पिष्टस्तेनासौ निहतो मया
लोकेऽस्मिन्समये भक्ता ब्राह्मणा वेदपारगाः। मैव ते दुर्गतिं यांतु लभंतां सुगतिं पुनः
देवानां दानवानां च मनुष्योरगरक्षसाम्। भूतग्रामस्य सर्वस्य समोस्मि त्रिदिवौकसः
युष्मद्धितार्थं पापोऽसौ मया मंत्रेण घातितः। प्राप्तः पुण्यकृतान्लोकान्कमलस्यास्य दर्शनात्
यन्मया पद्ममुक्तं तु तेनेदं पुष्करं भुवि। ख्यातं भविष्यते तीर्थं पावनं पुण्यदं महत्
पृथिव्यां सर्वजंतूनां पुण्यदं परिपठ्यते। कृतो ह्यनुग्रहो देवा भक्तानां भक्तिमिच्छताम्
वनेस्मिन्नित्यवासेन वृक्षैरभ्यर्थितेन च। महाकालो वनेऽत्रागादागतस्य ममानघाः
तपस्यतां च भवतां महज्ज्ञानं प्रदर्शितम्। कुरुध्वं हृदये देवाः स्वार्थं चैव परार्थकम्
भवद्भिर्दर्शनीयं तु नानारूपधरैर्भुवि। द्विषन्वै ज्ञानिनं विप्रं पापेनैवार्दितो नरः
न विमुच्येत पापेन जन्मकोटिशतैरपि। वेदांगपारगं विप्रं न हन्यान्न च दूषयेत्
एकस्मिन्निहते यस्मात्कोटिर्भवति घातिता। एकं वेदांतगं विप्रं भोजयेच्छ्रद्धयान्वितः
तस्य भुक्ता भवेत्कोटिर्विप्राणां नात्र संशयः। यः पात्रपूरणीं भिक्षां यतीनां तु प्रयच्छति