तत्रासौ तरुवृंदेन पुष्पामोदाभिनंदितः। अनुगृह्याथ भगवान्वनं तत्समृगांडजम्
जगतोऽनुग्रहार्थाय वासं तत्रान्वरोचयत्। पुष्करं नाम तत्तीर्थं क्षेत्रं वृषभमेव च
जनितं तद्भगवता लोकानां हितकारिणा। ब्रह्माणं तत्र वै गत्वा तोषयध्वं मया सह
आराध्यमानो भगवान्प्रदास्यति वरान्वरान्। इत्युक्त्वा भगवान्विष्णुः सह तैर्देवदानवैः
जगाम तद्वनोद्देशं यत्रास्ते स तु कंजजः। प्रहृष्टास्तुष्टमनसः कोकिलालापलापिताः
पुष्पोच्चयोज्ज्वलं शस्तं विविशुर्ब्रह्मणो वनम्। संप्राप्तं सर्वदेवैस्तु वनं नंदनसंमितम्
पद्मिनीमृगपुष्पाढ्यं सुदृढं शुशुभे तदा। प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम्
इह देवोस्तीति देवा बभ्रमुश्च दिदृक्षवः। मृगयंतस्ततस्ते तु सर्वे देवाः सवासवाः
अद्भुतस्य वनस्यांतं न ते ददृशुराशुगाः। विचिन्वद्भिस्तदा देवं दैवैर्वायुर्विलोकितः
स तानुवाच ब्रह्माणं न द्रक्ष्यथ तपो विना। तदा खिन्ना विचिन्वंतस्तस्मिन्पर्वतरोधसि
दक्षिणे चोत्तरे चैव अंतराले पुनः पुनः। वायूक्तं हृदये कृत्वा वायुस्तानब्रवीत्पुनः
त्रिविधो दर्शनोपायो विरिंचेरस्य सर्वदा। श्रद्धा ज्ञानेन तपसा योगेन च निगद्यते
सकलं निष्कलं चैव देवं पश्यंति योगिनः। तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम्
समुत्पन्ने तु विज्ञाने मंदश्रद्धो न पश्यति। भक्त्या परमया क्षिप्रं ब्रह्म पश्यंति योगिनः
द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः। कर्मणा मनसा वाचा नित्ययुक्ताः पितामहम्
तपश्चरत भद्रं वो ब्रह्माराधनतत्पराः। ब्राह्मीं दीक्षां प्रपन्नानां भक्तानां च द्विजन्मनाम्
सर्वकालं स जानाति दातव्यं दर्शनं मया। वायोस्तु वचनं श्रुत्वा हितमेतदवेत्य च
ब्रह्मेच्छाविष्टमतयो वाक्पतिं च ततोऽब्रुवन्। प्रज्ञानविबुधास्माकं ब्राह्मीं दीक्षां विधत्स्व नः
स दिदीक्षयिषुः क्षिप्रममरान्ब्रह्मदीक्षया। वेदोक्तेन विधानेन दीक्षयामास तान्गुरुः
विनीतवेषाः प्रणता अंतेवासित्वमाययुः। ब्रह्मप्रसादं संप्राप्ताः पौष्करं ज्ञानमीरितम्१०० 1.15.
यज्ञं चकार विधिना धिषणोध्वर्युसत्तमः। पद्मं कृत्वा मृणालाढ्यं पद्मदीक्षाप्रयोगतः
अनुजग्राह देवांस्तान्सुरेच्छा प्रेरितो मुनिः। तेभ्यो ददौ विवेकिभ्यः स वेदोक्तावधानवित्
दीक्षां वै विस्मयं त्यक्त्वा बृहस्पतिरुदारधीः। एकमग्निं च संस्कृत्य महात्मा त्रिदिवौकसाम्
प्रादादांगिरसस्तुष्टो जाप्यं वेदोदितं तु यत्। त्रिसुपर्णं त्रिमधु च पावमानीं च पावनीम्
स हि जाप्यादिकं सर्वमशिक्षयदुदारधीः। आपो हिष्ठेति यत्स्नानं ब्राह्मं तत्परिपठ्यते
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्। सिद्धिदं कीर्तिदं चैव कलिकल्मषनाशनम्
तस्मात्सर्वप्रयत्नेन ब्राह्मस्नानं समाचरेत्। कुर्वंतो मौनिनो दांता दीक्षिताः क्षपितेंद्रियाः
सर्वे कमंडलुयुता मुक्तकक्षाक्षमालिनः। दंडिनश्चीरवस्त्राश्च जटाभिरतिशोभिताः
स्नानाचारासनरताः प्रयत्नध्यानधारिणः। मनो ब्रह्मणि संयोज्य नियताहारकांक्षिणः
अतिष्ठन्दर्शनालापसंगध्यानविवर्जिताः। एवं व्रतधराः सर्वे त्रिकालं स्नानकारिणः