कामगाः कामरूपाश्च कामरूपफलप्रदाः। कामसंदर्शनाः पुंसां तपःसिद्ध्युज्वला नृणाम्
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ। एवं स वरदो ब्रह्मा अनुजग्राह पादपान्
स्थित्वा वर्ष सहस्रं तु पुष्करं प्रक्षिपद्भुवि। क्षितिर्निपतिता तेन व्यकंपत रसातलम्
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः। शक्राशनि हतानीव व्याघ्र व्याला वृतानि च
शिखराण्यप्यशीर्यंत पर्वतानां सहस्रशः। देवसिद्धविमानानि गंधर्वनगराणि च
प्रचेलुर्बभ्रमुः पेतुर्विविशुश्च धरातलम्। कपोतमेघाः खात्पेतुः पुटसंघातदर्शिनः
ज्योतिर्गणांश्छादयंतो बभूवुस्तीव्र भास्कराः। महता तस्य शब्देन मूकांधबधिरीकृतम्
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्। सुरासुराणां सर्वेषां शरीराणि मनांसि च
अवसेदुश्च किमिति किमित्येतन्न जज्ञिरे। धैर्यमालंब्य सर्वेऽथ ब्रह्माणं चाप्यलोकयन्
न च ते तमपश्यंत कुत्र ब्रह्मागतो ह्यभूत्। किमर्थं कंपिता भूमिर्निमित्तोत्पातदर्शनम्
तावद्विष्णुर्गतस्तत्र यत्र देवा व्यवस्थिताः। प्रणिपत्य इदं वाक्यमुक्तवंतो दिवौकसः
किमेतद्भगवन्ब्रूहि निमित्तोत्पातदर्शनम्। त्रैलोक्यं कंपितं येन संयुक्तं कालधर्मणा
जातकल्पावसानं तु भिन्नमर्यादसागरम्। चत्वारो दिग्गजाः किं तु बभूवुरचलाश्चलाः
समावृता धरा कस्मात्सप्तसागरवारिणा। उत्पत्तिर्नास्ति शब्दस्य भगवन्निः प्रयोजना
यादृशो वा स्मृतः शब्दो न भूतो न भविष्यति। त्रैलोक्यमाकुलं येन चक्रे रौद्रेण चोद्यता
शुभोऽशुभो वा शब्दोरेयं त्रैलोक्यस्य दिवौकसाम्। भगवन्यदि जानासि किमेतत्कथयस्व नः
एवमुक्तोऽब्रवीद्विष्णुः परमेणानुभावितः। मा भैष्ट मरुतः सर्वे शृणुध्वं चात्र कारणम्
निश्चयेनानुविज्ञाय वक्ष्याम्येष यथाविधम्। पद्महस्तो हि भगवान्ब्रह्मा लोकपितामहः
भूप्रदेशे पुण्यराशौ यज्ञं कर्तुं व्यवस्थितः। अवरोहे पर्वतानां वने चातीवशोभने
कमलं तस्य हस्तात्तु पतितं धरणीतले। तस्य शब्दो महानेष येन यूयं प्रकंपिताः
तत्रासौ तरुवृंदेन पुष्पामोदाभिनंदितः। अनुगृह्याथ भगवान्वनं तत्समृगांडजम्
जगतोऽनुग्रहार्थाय वासं तत्रान्वरोचयत्। पुष्करं नाम तत्तीर्थं क्षेत्रं वृषभमेव च
जनितं तद्भगवता लोकानां हितकारिणा। ब्रह्माणं तत्र वै गत्वा तोषयध्वं मया सह
आराध्यमानो भगवान्प्रदास्यति वरान्वरान्। इत्युक्त्वा भगवान्विष्णुः सह तैर्देवदानवैः
जगाम तद्वनोद्देशं यत्रास्ते स तु कंजजः। प्रहृष्टास्तुष्टमनसः कोकिलालापलापिताः
पुष्पोच्चयोज्ज्वलं शस्तं विविशुर्ब्रह्मणो वनम्। संप्राप्तं सर्वदेवैस्तु वनं नंदनसंमितम्
पद्मिनीमृगपुष्पाढ्यं सुदृढं शुशुभे तदा। प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम्
इह देवोस्तीति देवा बभ्रमुश्च दिदृक्षवः। मृगयंतस्ततस्ते तु सर्वे देवाः सवासवाः
अद्भुतस्य वनस्यांतं न ते ददृशुराशुगाः। विचिन्वद्भिस्तदा देवं दैवैर्वायुर्विलोकितः
स तानुवाच ब्रह्माणं न द्रक्ष्यथ तपो विना। तदा खिन्ना विचिन्वंतस्तस्मिन्पर्वतरोधसि