वसंतमहमासाद्य पुरुषान्स्पर्द्धयंति हि। पुष्पशोभाभरनतैः शिखरैर्वायुकंपितैः
नृत्यंतीव नराः प्रीताः स्रगलंकृतशेखराः। शृंगाग्रपवनक्षिप्ताः पुष्पावलियुता द्रुमाः
सवल्लीकाः प्रनृत्यंति मानवा इव सप्रियाः। स्वपुष्पनतवल्लीभिः पादपाः क्वचिदावृताः
भांति तारागणैश्चित्रैः शरदीव नभस्तलम्। द्रुमाणामथवाग्रेषु पुष्पिता मालती लताः
शेखराइव शोभंते रचिता बुद्धिपूर्वकम्। हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः
सौहृदं दर्शयंतीव नराः साधुसमागमे। पुष्पकिंजल्ककपिला गताः सर्वदिशासु च
कदंबपुष्पस्य जयं घोषयंतीव षट्पदाः। क्वचित्पुष्पासवक्षीबाः संपतंति ततस्ततः
पुंस्कोकिलगणावृक्ष गहनेष्विव सप्रियाः। शिरीषपुष्पसंकाशाः शुका मिथुनशः क्वचित्
कीर्तयंति गिरश्चित्राः पूजिता ब्राह्मणा यथा। सहचारिसुसंयुक्ता मयूराश्चित्रबर्हिणः
वनांतेष्वपि नृत्यंति शोभंत इव नर्त्तकाः। कूजंतःपक्षिसंघाता नानारुतविराविणः५० 1.15.
कुर्वंति रमणीयं वै रमणीयतरं वनम्। नानामृगगणाकीर्णं नित्यं प्रमुदितांडजम्
तद्वनं नंदनसमं मनोदृष्टिविवर्द्धनम्। पद्मयोनिस्तु भगवांस्तथा रूपं वनोत्तमम्
ददर्शादर्शवद्दृष्ट्या सौम्ययापा पयन्निव। ता वृक्षपंक्तयः सर्वा दृष्ट्वा देवं तथागतम्
निवेद्य ब्रह्मणे भक्त्या मुमुचुः पुष्पसंपदः। पुष्पप्रतिग्रहं कृत्वा पादपानां पितामहः
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः। एवमुक्ता भगवता तरवो निरवग्रहाः
ऊचुः प्रांजलयः सर्वे नमस्कृत्वा विरिंचनम्। वरं ददासि चेद्देव प्रपन्नजनवत्सल
इहैव भगवन्नित्यं वने संनिहितो भव। एष नः परमः कामः पितामह नमोस्तु ते
त्वं चेद्वससि देवेश वनेस्मिन्विश्वभावन। सर्वात्मना प्रपन्नानां वांछतामुत्तमं वरम्
वरकोटिभिरन्याभिरलं नो दीयतां वरम्। सन्निधानेन तीर्थेभ्य इदं स्यात्प्रवरं महत्
ब्रह्मोवाच। उत्तमं सर्वक्षेत्राणां पुण्यमेतद्भविष्यति। नित्यं पुष्पफलोपेता नित्यसुस्थिरयौवनाः
कामगाः कामरूपाश्च कामरूपफलप्रदाः। कामसंदर्शनाः पुंसां तपःसिद्ध्युज्वला नृणाम्
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ। एवं स वरदो ब्रह्मा अनुजग्राह पादपान्
स्थित्वा वर्ष सहस्रं तु पुष्करं प्रक्षिपद्भुवि। क्षितिर्निपतिता तेन व्यकंपत रसातलम्
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः। शक्राशनि हतानीव व्याघ्र व्याला वृतानि च
शिखराण्यप्यशीर्यंत पर्वतानां सहस्रशः। देवसिद्धविमानानि गंधर्वनगराणि च
प्रचेलुर्बभ्रमुः पेतुर्विविशुश्च धरातलम्। कपोतमेघाः खात्पेतुः पुटसंघातदर्शिनः
ज्योतिर्गणांश्छादयंतो बभूवुस्तीव्र भास्कराः। महता तस्य शब्देन मूकांधबधिरीकृतम्
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्। सुरासुराणां सर्वेषां शरीराणि मनांसि च
अवसेदुश्च किमिति किमित्येतन्न जज्ञिरे। धैर्यमालंब्य सर्वेऽथ ब्रह्माणं चाप्यलोकयन्
न च ते तमपश्यंत कुत्र ब्रह्मागतो ह्यभूत्। किमर्थं कंपिता भूमिर्निमित्तोत्पातदर्शनम्