आजिघ्रंती वचाऽन्योन्यं पुष्पशाखावतंसकाः। नागवृक्षाः क्वचित्पुष्पैर्द्रुमवानीरकेसरैः
नयनैरिव शोभंते चंचलैः कृष्णतारकैः। पुष्पसंपन्नशिखराः कर्णिकारद्रुमाः क्वचित्
युग्मयुग्माद्विधा चेह शोभन्त इव दंपती। सुपुष्पप्रभवाटोपैस्सिंदुवार द्रुपंक्तयः
मूर्तिमत्य इवाभांति पूजिता वनदेवताः। क्वचित्क्वचित्कुंदलताः सपुष्पाभरणोज्वलाः
दिक्षु वृक्षेषु शोभंते बालचंद्रा इवोच्छ्रिताः। सर्जार्जुनाः क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः
धौतकौशेयवासोभिः प्रावृताः पुरुषा इव। अतिमुक्तकवल्लीभिः पुष्पिताभिस्तथा द्रुमाः
उपगूढा विराजंते स्वनारीभिरिव प्रियाः। अपरस्परसंसक्तैः सालाशोकाश्च पल्लवैः
हस्तैर्हस्तान्स्पृशंतीव सुहृदश्चिरसंगताः। फलपुष्पभरानम्राः पनसाः सरलार्जुनाः
अन्योन्यमर्चयंतीव पुष्पैश्चैव फलैस्तथा। मारुतावेगसंश्लिष्टैः पादपास्सालबाहुभिः
अभ्याशमागतं लोकं प्रतिभावैरिवोत्थिताः। पुष्पाणामवरोधेन सुशोभार्थं निवेशिताः
वसंतमहमासाद्य पुरुषान्स्पर्द्धयंति हि। पुष्पशोभाभरनतैः शिखरैर्वायुकंपितैः
नृत्यंतीव नराः प्रीताः स्रगलंकृतशेखराः। शृंगाग्रपवनक्षिप्ताः पुष्पावलियुता द्रुमाः
सवल्लीकाः प्रनृत्यंति मानवा इव सप्रियाः। स्वपुष्पनतवल्लीभिः पादपाः क्वचिदावृताः
भांति तारागणैश्चित्रैः शरदीव नभस्तलम्। द्रुमाणामथवाग्रेषु पुष्पिता मालती लताः
शेखराइव शोभंते रचिता बुद्धिपूर्वकम्। हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः
सौहृदं दर्शयंतीव नराः साधुसमागमे। पुष्पकिंजल्ककपिला गताः सर्वदिशासु च
कदंबपुष्पस्य जयं घोषयंतीव षट्पदाः। क्वचित्पुष्पासवक्षीबाः संपतंति ततस्ततः
पुंस्कोकिलगणावृक्ष गहनेष्विव सप्रियाः। शिरीषपुष्पसंकाशाः शुका मिथुनशः क्वचित्
कीर्तयंति गिरश्चित्राः पूजिता ब्राह्मणा यथा। सहचारिसुसंयुक्ता मयूराश्चित्रबर्हिणः
वनांतेष्वपि नृत्यंति शोभंत इव नर्त्तकाः। कूजंतःपक्षिसंघाता नानारुतविराविणः५० 1.15.
कुर्वंति रमणीयं वै रमणीयतरं वनम्। नानामृगगणाकीर्णं नित्यं प्रमुदितांडजम्
तद्वनं नंदनसमं मनोदृष्टिविवर्द्धनम्। पद्मयोनिस्तु भगवांस्तथा रूपं वनोत्तमम्
ददर्शादर्शवद्दृष्ट्या सौम्ययापा पयन्निव। ता वृक्षपंक्तयः सर्वा दृष्ट्वा देवं तथागतम्
निवेद्य ब्रह्मणे भक्त्या मुमुचुः पुष्पसंपदः। पुष्पप्रतिग्रहं कृत्वा पादपानां पितामहः
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः। एवमुक्ता भगवता तरवो निरवग्रहाः
ऊचुः प्रांजलयः सर्वे नमस्कृत्वा विरिंचनम्। वरं ददासि चेद्देव प्रपन्नजनवत्सल
इहैव भगवन्नित्यं वने संनिहितो भव। एष नः परमः कामः पितामह नमोस्तु ते
त्वं चेद्वससि देवेश वनेस्मिन्विश्वभावन। सर्वात्मना प्रपन्नानां वांछतामुत्तमं वरम्
वरकोटिभिरन्याभिरलं नो दीयतां वरम्। सन्निधानेन तीर्थेभ्य इदं स्यात्प्रवरं महत्
ब्रह्मोवाच। उत्तमं सर्वक्षेत्राणां पुण्यमेतद्भविष्यति। नित्यं पुष्पफलोपेता नित्यसुस्थिरयौवनाः