भीष्म उवाच। किं कृतं ब्रह्मणा ब्रह्मन्प्रेष्य वाराणसीपुरीम्। जनार्दनेन किं कर्म शंकरेण च यन्मुने
कथं यज्ञः कृतस्तेन कस्मिंस्तीर्थे वदस्व मे। के सदस्या ऋत्विजश्च सर्वांस्तान्प्रब्रवीहि मे
के देवास्तर्पितास्तेन एतन्मे कौतुकं महत्। पुलस्त्य उवाच। श्रीनिधानं पुरं मेरोः शिखरे रत्नचित्रितम्
अनेकाश्चर्यनिलयंबहुपादपसंकुलम्। विचित्रधातुभिश्चित्रं स्वच्छस्फटिकनिर्मलम्
लतावितानशोभाढ्यं शिखिशब्दविनादितम्। मृगेन्द्ररववित्रस्त गजयूथसमाकुलम्
निर्झरांबुप्रपातोत्थ शीकरासारशीतलम्। वाताहततरुव्रात प्रसन्नापानचित्रितम्
मृगनाभिवरामोद वासिताशेषकाननम्। लतागृहरतिश्रान्त सुप्तविद्याधराध्वगम्
प्रगीतकिन्नरव्रात मधुरध्वनिनादितम्। तस्मिन्ननेकविन्यास शोभिताशेषभूमिकम्
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः। तत्र दिव्यांगनोद्गीत मधुरध्वनि नादिता
पारिजाततरूत्पन्न मंजरीदाममालिनी। रत्नरश्मिसमूहोत्थ बहुवर्णविचित्रिता
विन्यस्तस्तंभकोटिस्तु निर्मलादर्शशोभिता। अप्सरोनृत्यविन्यास विलासोल्लासलासिता
बह्वातोद्यसमुत्पन्नसमूहस्वननादिता। लयतालयुतानेक गीतवादित्र शोभिता
सभा कांतिमती नाम देवानां शर्मदायिका। ऋषिसंघसमायुक्ता मुनिवृंदनिषेविता
द्विजातिसामशब्देन नादिताऽऽनंददायिनी। तस्यां निविष्टो देवेशस्संध्यासक्तः पितामहः
ध्यायति स्म परं देवं येनेदं निर्मितं जगत्। ध्यायतो बुद्धिरुत्पन्ना कथं यज्ञं करोम्यहम्
कस्मिन्स्थाने मया यज्ञः कार्यः कुत्र धरातले। काशीप्रयागस्तुंगा च नैमिषं शृंखलं तथा
कांची भद्रा देविका च कुरुक्षेत्रं सरस्वती। प्रभासादीनि तीर्थानि पृथिव्यामिह मध्यतः
क्षेत्राणि पुण्यतीर्थानि संति यानीह सर्वशः। मदादेशाच्च रुद्रेण कृतान्यन्यानि भूतले
यथाहं सर्वदेवेषु आदिदेवो व्यवस्थितः। तथा चैकं परं तीर्थमादिभूतं करोम्यहम्
अहं यत्र समुत्पन्नः पद्मं तद्विष्णुनाभिजम्। पुष्करं प्रोच्यते तीर्थमृषिभिर्वेदपाठकैः
एवं चिंतयतस्तस्य ब्रह्मणस्तु प्रजापतेः। मतिरेषा समुत्पन्ना व्रजाम्येष धरातले
प्राक्स्थानं स समासाद्य प्रविष्टस्तद्वनोत्तमम्। नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्
नानापक्षिरवाकीर्णं नानामृगगणाकुलम्। द्रुमपुष्पभरामोदैर्वासयद्यत्सुरासुरान्
बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्। नानागंधरसैः पक्वापक्वैश्च षडृतूद्भवैः
फलैः सुवर्णरूपाढ्यैर्घ्राणदृष्टिमनोहरैः। जीर्णं पत्रं तृणं यत्र शुष्ककाष्ठफलानि च
बहिः क्षिपति जातानि मारुतोनुग्रहादिव। नानापुष्पसमूहानां गंधमादाय मारुतः
शीतलो वाति खं भूमिं दिशो यत्राभिवासयन्। हरितस्निग्ध निश्छिद्रैरकीटकवनोत्कटैः
वृक्षैरनेकसंज्ञैर्यद्भूषितं शिखरान्वितैः। अरोगैर्दर्शनीयैश्च सुवृत्तैः कैश्चिदुज्ज्वलैः
कुटुंबमिव विप्राणामृत्विग्भिर्भाति सर्वतः। शोभंते धातुसंकाशैरंकुरैः प्रावृता द्रुमाः
कुलीनैरिव निश्छिद्रैः स्वगुणैः प्रावृता नराः। पवनाविद्धशिखरैः स्पृशंतीव परस्परम्