प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः। त्रिविधः पिंडदानाय विधिरुक्तो मयानघ
मानुषैः पिंडादानं तु कार्यमत्रागतैस्सदा। पिंडदानं च तत्रैव स्वपुत्रैः कार्यमादरात्
सुपुत्रास्ते पितॄणां तु भवंति सुखदायकाः। प्रोक्तं तीर्थं मया तुभ्यं दर्शनादपि मुक्तिदम्
स्नात्वा तु सलिले तत्र मुच्यते जन्मबंधनात्। विमुक्तो ब्रह्महत्यायास्तत्र रुद्र यथासुखम्
अविमुक्ते मया दत्ते तिष्ठ त्वं भार्यया सह। रुद्र उवाच। पृथिव्यां यानि तीर्थानि तेष्वहं विष्णुना सह
तिष्ठामि भवतोक्तेन वर एष वृतो मया। अहं देवो महादेव आराध्यो भवता सदा
वरं दास्यामि ते चाहं संतुष्टेनांतरात्मना। विष्णोश्चाहं प्रदास्यामि वरांश्च मनसीप्सितान्
सुराणां चैव सर्वेषां मुनीनां भवितात्मनाम्। अहं दाता अहं याच्यो नान्यो भाव्यः कथंचन
ब्रह्मोवाच। एवं करिष्येहं रुद्र यत्वयोक्तं वचः शुभम्। नारायणश्च ते वाक्यं कर्ता सर्वं न संशयः
विसृज्यैवं तदा रुद्रं ब्रह्मा चांतरधीयत। वाराणस्यां महादेवो गत्वा तीर्थं न्यवेशयत्
भीष्म उवाच। किं कृतं ब्रह्मणा ब्रह्मन्प्रेष्य वाराणसीपुरीम्। जनार्दनेन किं कर्म शंकरेण च यन्मुने
कथं यज्ञः कृतस्तेन कस्मिंस्तीर्थे वदस्व मे। के सदस्या ऋत्विजश्च सर्वांस्तान्प्रब्रवीहि मे
के देवास्तर्पितास्तेन एतन्मे कौतुकं महत्। पुलस्त्य उवाच। श्रीनिधानं पुरं मेरोः शिखरे रत्नचित्रितम्
अनेकाश्चर्यनिलयंबहुपादपसंकुलम्। विचित्रधातुभिश्चित्रं स्वच्छस्फटिकनिर्मलम्
लतावितानशोभाढ्यं शिखिशब्दविनादितम्। मृगेन्द्ररववित्रस्त गजयूथसमाकुलम्
निर्झरांबुप्रपातोत्थ शीकरासारशीतलम्। वाताहततरुव्रात प्रसन्नापानचित्रितम्
मृगनाभिवरामोद वासिताशेषकाननम्। लतागृहरतिश्रान्त सुप्तविद्याधराध्वगम्
प्रगीतकिन्नरव्रात मधुरध्वनिनादितम्। तस्मिन्ननेकविन्यास शोभिताशेषभूमिकम्
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः। तत्र दिव्यांगनोद्गीत मधुरध्वनि नादिता
पारिजाततरूत्पन्न मंजरीदाममालिनी। रत्नरश्मिसमूहोत्थ बहुवर्णविचित्रिता
विन्यस्तस्तंभकोटिस्तु निर्मलादर्शशोभिता। अप्सरोनृत्यविन्यास विलासोल्लासलासिता
बह्वातोद्यसमुत्पन्नसमूहस्वननादिता। लयतालयुतानेक गीतवादित्र शोभिता
सभा कांतिमती नाम देवानां शर्मदायिका। ऋषिसंघसमायुक्ता मुनिवृंदनिषेविता
द्विजातिसामशब्देन नादिताऽऽनंददायिनी। तस्यां निविष्टो देवेशस्संध्यासक्तः पितामहः
ध्यायति स्म परं देवं येनेदं निर्मितं जगत्। ध्यायतो बुद्धिरुत्पन्ना कथं यज्ञं करोम्यहम्
कस्मिन्स्थाने मया यज्ञः कार्यः कुत्र धरातले। काशीप्रयागस्तुंगा च नैमिषं शृंखलं तथा
कांची भद्रा देविका च कुरुक्षेत्रं सरस्वती। प्रभासादीनि तीर्थानि पृथिव्यामिह मध्यतः
क्षेत्राणि पुण्यतीर्थानि संति यानीह सर्वशः। मदादेशाच्च रुद्रेण कृतान्यन्यानि भूतले
यथाहं सर्वदेवेषु आदिदेवो व्यवस्थितः। तथा चैकं परं तीर्थमादिभूतं करोम्यहम्
अहं यत्र समुत्पन्नः पद्मं तद्विष्णुनाभिजम्। पुष्करं प्रोच्यते तीर्थमृषिभिर्वेदपाठकैः